________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
प्रमात्वं न गुणजन्यतावच्छेदकमित्येतत्परम् । दीधितौ हि तत् तथैव व्याख्यातम् । प्रत्यक्षादिप्रमासु गुणविशेषाणां हेतुत्वे सिद्धे घटप्रमात्वघटितधर्मावच्छिन्नकार्यतानिरूपितकारणतावत्त्वेन घटप्रमात्वावच्छिन्नं प्रति कारणता सम्भवति। न तु भूयो घटावयवेन्द्रियसन्निकर्षत्वादिरूपेण । अननुगमात् । इत्यभिप्रायकं प्रमामात्रे इत्यादि वाक्यम् । वस्तुतो घटप्रमासामान्ये घटप्रकारकमीश्वरज्ञानं हेतुः । घटाभावभ्रमसामा- . न्ये दोषोऽपि । तदेव विशेषणसंसृष्टासंसृष्टविशेष्यज्ञाने वा गुणदोषौ । लौकिकसन्निकर्षवत् सामान्यलक्षणापि निर्विकल्पकहेतुः । अप्रसिद्धसाध्यकानुमितिस्वीकारे तु विशेष्यसंसृष्टासंसृष्टविशेषणज्ञाने गुणदोषावित्यादि । उत्पत्तिवादे मित्रैरप्युक्तम्'कार्ये प्रमासामान्ये ईश्वरीयज्ञानं गुण' इति । यत्तु, समीचीनो ह्यनुभवः प्रमा । न तु तत्रानित्यत्वं विशेषणम् । व्यर्थत्वात् । तत्करणं प्रमाणम् । न चैवमाप्तप्रामाण्यादिति गौतमसूत्रविरोधः। ते न हि आप्तस्येश्वरस्य प्रामाण्यमावेदितम् । न तु प्रमातृत्वम् । प्रमातृत्वसत्त्वे तदेवोक्तं स्यादिति वाच्यम् । 'प्रमासमवायात् प्रमातृत्वस्येव प्रमाया अयोगव्यवच्छेदेन प्रमाणत्वस्यापि सम्भवा दिति कुसुमाञ्जलावुक्तम् । तत् गुणजन्यतावच्छेदकत्वरूपपरतस्त्वायोग्यं चतुर्विवत्वेन विमज्यमाने प्रमाणे घटकं यत् प्रमात्वं तदभिप्रायकम् । तत्रैवानित्यत्वप्रवेशवैयर्थ्यस्य सङ्गतत्वात् । यदपि निर्विकल्पकमपि प्रमा । विशेष्यावृत्त्यप्रकारकज्ञानत्वरूपं प्रमात्वं निर्विकल्पकेऽप्यस्तीति कथं तत् प्रमाबहिर्भूतमिति तन्न । विशेष्यावृत्तीत्यादेः स्वतोग्राह्यत्वविप्रतिपत्तिरूपव्यवहारानङ्गत्वेन तद्विशिष्टस्यापि निर्विकल्पकस्य तादृशव्यवहाराङ्गतद्वतीत्यादिप्रमात्वप्रत्याख्याने बाधकामावात् । तदिदमुक्तम्-निष्पकारे चेत्यादि । विलक्षणेत्यादि। स्वभावतः वृत्त्यनुपरक्तचिद्रूपेण । प्रमाभ्रमविलक्षणस्यापि प्रमाभ्रमरूपविलक्षणवृत्त्युपरक्तरूपेण । तदुभयरूपेण प्रमात्वभ्रमत्वोभयरूपेण व्यवहारोपपत्तेरित्यर्थः। ज्ञानपदवाच्योति । ज्ञाधातुवाच्येत्यर्थः।ज्ञानपदस्य ज्ञानवाचकत्वात् । ज्ञानपदजन्येत्यादि।तादृशविशेष्यमात्रवृत्तिना तत्तद्धीविषयत्वेनावच्छिन्नप्रतियोगिताको भेदो विवक्षित इत्यर्थः । तेनोक्तविशेष्यत्वस्य तत्तद्धीविषयत्वापेक्षया गुरुत्वेऽपि नाप्रसिद्धिः । न चोक्तविशेष्यत्वस्य घटादिसमूहालम्बनीयस्य घटादिसाधारण्येऽप्यसिद्धिः । लक्षणया ज्ञानपदजन्यायाः ब्रह्ममात्रधियो निवेशात्। ननु, ब्रह्मणो वृत्त्यवच्छिन्नचिद्रूपानन्दपदार्थभिन्नत्वात्तत्र व्यभिचारस्तत्राह-वैषयिकानन्दस्येति । विषयसेवाजन्यवृत्त्यवच्छिन्नचिदूपानन्दत्वोपलक्षितस्येत्यर्थः । तथा च तद्भेद एव हेतुः । अतो न ब्रह्मणि व्यभिचार इति भावः । ज्ञानभिन्नत्वस्य ज्ञानं ब्रह्मेतिवाक्यजन्यतद्धीविषयान्यत्वस्य । आनन्दभिन्नत्वस्य 'आनन्दो ब्रह्मे'त्यादिवाक्यजन्यतहीविषयान्यत्वस्य । ब्रह्मणीति ।
For Private and Personal Use Only