SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org प्र० दे परिच्छिन्नत्वनिरुक्तिः ] लघुचन्द्रिका ! Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir ९९ 1 'आनन्दं ब्रह्मणो रूप' मित्यादिवाक्यजधीसिद्धो भेदो ब्रह्मण्यपीति भावः । धर्मीति । यत्र भेदः स्थापनीयस्स धर्मी । ब्रह्मसमसत्ताकभेदाप्रसिद्धेः ब्रह्मणि भेदः स्थापयितुमशक्यः । स्वसमसत्ताकभेदवत्त्वस्य हेतुत्वादिति पर्यवसितार्थः । ननु, भेदस्याद्यापि मिथ्यात्वानिश्चयात् ब्रह्मसमसत्ताकभेदो ब्रह्मण्यपि निश्चेतुं शक्य इति चेन्न । प्रपञ्चे मिथ्यात्वसन्देहेन भेदे ब्रह्मसमसत्ताकत्वानिश्रयात् । लाघवादाह - अनौपाधिकत्वेनेति । अभेदज्ञाने सत्यपीच्छादिरूपोपाधिना प्रतीयमानत्वादानदं ब्रह्मणो रूपमित्यादिभेद औपाधिकः । अयं घटो न घट इत्यादिभेदवदाहार्यमनोवृत्तिविषयत्वात् । तथा च तादृशभेदान्यभेदो हेतौ निवेश्यत इति भावः । वस्तुतस्तु, उपाधिं प्रतियोगिनमर्हतीत्योपाधिकः, स्वप्रतियोगिवृत्तिः । तदन्योऽनौपाधिकः । ब्रह्मावृत्तिरिति यावत् । तेनौपाधिकत्वस्यानुगतस्य दुर्वचत्वेऽपि न क्षतिः । न वा ज्ञानानन्दसत्तांशानामनौपाधिककल्पितभेदसत्वेऽपि क्षतिः ॥ For Private and Personal Use Only ॥ इति लघुचन्द्रिकायां जडत्व हेतूपपत्तिः ॥ देश इत्यादि । कचिद्देश एवं विद्यमानत्वं देशतः परिच्छेदः । क्वचित्काल एव विद्यमानत्वं कालपरिच्छेदः । केनचिदेव वस्तुना तादात्म्यापन्नत्वं वस्तुपरिच्छेदः । यथा ह्यारुण्यादिगुणेन क्रयसाधनगवादिकं परिच्छिन्नमिति व्यवहारः । आरुण्यादेस्तादृशगवादेस्तदन्यस्माद्व्यावर्त्तकत्वात् । तथा तत्तद्देशो घटादेराधारविधया तदन्याधारविशेषिताद्यावर्त्तक इति घटादितत्परिच्छिन्नमिति व्यवह्रियते । एवं तत्तत्कालोऽपि कालान्तरावच्छिन्नादाधारविधया घटादेर्व्यावर्त्तक इति स तत्परिच्छिन्नो व्यवह्रियते । एवमेतद्वस्तु ता दात्म्येन घटादेर्विशेषणं सदितरवस्त्वात्मकाव्यावर्तकमिति स तत्परिच्छिन्न उच्यते । एवमयं घट एतद्देशपरिच्छिन्न इत्यादिवाक्यस्यैतद्भटः एतद्देशेन देशान्तरावच्छिन्नेभ्यो व्यावर्त्तित इत्यर्थः । एवमेतत्कालपरिच्छिन्न इत्यादावपि देशान्तरवृत्त्यत्यन्ताभावप्रतियोगित्वं कालान्तरवृत्तिध्वंसप्रतियोगित्वं वस्त्वन्तरनिष्ठभेदप्रतियोगित्वञ्चाथलभ्यते । तादृशशब्दात्तदप्रतीतेः । वस्तुतस्तदेशस्याधारविधया परिच्छेदकत्वमन्ययोगव्यवच्छेदकतया विशेषणत्वं परिच्छेद्यघटादेर्देशान्तरवृत्त्यत्यन्ताभावप्रतियोगित्वपर्यवसितम् । एतत्कालस्य ध्वंसानधिकरणतया विशेषणत्वं कालान्तरध्वंसाधिकरणत्वपर्यवसितमिति परिच्छिन्नशब्दादेव देशान्तरवृत्त्यत्यन्ताभावादिप्रतियोगित्वलाभः । तत्रापि देशान्तरादिघटितस्य हेतुत्वे तस्य सर्वदृश्याननुगतत्वादत्यन्ताभावप्रतियोगित्वादिभिन्नांशवैयर्थ्याच्चो प्रतियोगित्वादेरेव हेतुत्वमित्याशयेनाह —— तत्रेत्यादि । आकशादावित्यादिपदेनेश्वरादिसङ्ग्रहः । सर्वमूर्ते
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy