SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० अद्वैतमञ्जरी । प्वाकाशमित्यादिप्रतीतेः वृत्तिनियामकसंयोगेनापि सर्वमूर्तप्वाकाशस्यात्यन्ताभावविरहात् तत्सम्बन्धावच्छिन्नमत्यन्ताभावप्रतियोगित्वमप्याकाशादावसिद्धमिति भावः । अभिप्राय इति । संयोगावच्छिन्नप्रतियोगितात्वेनैव हेतुता । तादृशप्रतियोगिता चामूर्तनिष्ठात्यन्ताभावीया आकाशादावप्यस्तीत्यभिप्राये इत्यर्थः । व्यभिचार इति । तथा च तद्वारणाय मूर्तनिष्ठात्यन्ताभावनिवेशे आकाशादावसिद्धितादवस्थ्यमिति भावः । सर्वसम्बन्धशून्यति । उपहितात्मन एवोपादानत्वात् , साक्षित्वाच्च शुद्धे सर्वासंबन्धिनि । सर्वसंबन्धिनि स्वोपहितचिदास्यत्वसंबन्धेन सर्वसंबन्धिनि । धर्मीति । स्वाश्रयेत्यर्थः । वपदं हेतुपरम् । ननु, आत्मघटान्यतरत्वरूपेण यो भेदः तत्प्रतियोगित्वस्य स्वाश्रयो घटोऽपि । तत्समसत्ताकभेदप्रतियोगित्वमात्मन्यपीत्यत आह-अज्ञानेत्यादि । खसमानेति । यत्र हेतुः स्थापनीयः सः स्वपदार्थः । तथा च आत्मनि हेतोः स्थापने तस्यैव स्वपदेन धार्यत्वात्तत्समानसत्ताकाप्रसिद्धिः । अतो अनात्मैव खपदार्थ इति भावः । सत्ताकेतीति । सत्ताकेत्येव । वस्तुतस्तु, लाघवादात्मावृत्तित्वविशिष्टप्रतियोगितासम्बन्धेनात्यन्ताभावो भेदो वा हेतुर्बोध्यः । नन्वाकाशादावत्यन्ताभावप्रतियोगित्वस्यासिद्धिः । प्रत्यक्षेणानुमानादिना वा तत्र तदसिद्धेरुक्तत्वात् । अथ दृश्यत्वादिहेतुना स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वानुमानात्तत्सिद्धिरिति चेत् तर्हि मिथ्यात्वं सिद्धमेवेति साध्याविशेषः । हेतुसिद्धेरेव साध्यसिद्धित्वात् । तत्राह-निरुक्तेति । सदसद्विलक्षणत्वादित्यर्थः । एवंरूपत्वेति । अत्यन्ताभावप्रतियोगितारूपत्वेत्यर्थः । तथा च प्रकृतहेतुसिद्धेः स्वसमानाधिकरणेत्यादिमिथ्यात्वसिद्धिरूपत्वेऽपि सदसद्विलक्षणत्वादिरूपमिथ्यात्वसिद्वित्वाभावात्तादृशमिथ्यात्वमेव प्रकृतहेतुनानुमेयमिति नोक्तदोष इति भावः । जन्यत्वेनेति । जन्यमात्रस्य प्रलये संस्काररूपनाशोत्पादाजन्यत्वेन नाशप्रतियोगित्वानुमानम् । ननु,'आकाशवत् सर्वगतश्च नित्य' इति श्रुतौ सर्वगतपदमाकाशस्य सर्वमूर्तसंयोगित्वबोधकम् । नित्यपदमविनाशित्वबोधकम् । तथा च प्रलयकालीनसंस्कारादिसंयोगित्वादिप्राप्त्या विनाशित्वं कथं तत्राह-आकाशवदित्यादि । सवंगतत्वेन सर्वमूर्तसंयोगित्वेन । आभूतसंछवस्थायित्वेन सृष्टिकालाविनाशित्वेन । प्रलये संयोगस्यासिद्धेः संस्काररूपसूक्ष्मावस्थायास्संयोगादिमत्त्वे मानाभावाच्चोक्तार्थकत्वं सर्वगतपदस्य युक्तमिति भावः । खानुगतप्रतिभासे स्वतादात्म्येन स्वरूपतो भानयोग्ये । स्वतादात्म्यविषयतानिरूपितनिरवच्छिन्नप्रकारतावतीति यावत् । सप्तम्या व्यापकत्वमर्थः । व्यापकतानिरूपकत्वं च तादात्म्येन । तथा च यद्यत् उक्त For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy