________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे परिच्छिन्नत्वनिरुक्तिः ] लघुचन्द्रिका । प्रकारताविशिष्टं तत्र ते कल्पिता इत्यर्थः । कल्पितत्वं ज्ञाननिवर्त्यत्वं, स्वाभाववति ज्ञेयत्वं वा । तथा चोक्तप्रकारताव्यापकस्वनिवर्तकधीविषयताकत्वं उक्तप्रकारताव्यापकस्वात्यन्ताभावकत्वं वा पर्यवसितार्थः । उक्तप्रकारतासामानाधिकरण्यमात्रस्य विषयतादौ निवेशे पटादेः स्वतादात्म्यभ्रमविषयघटत्वादौ कल्पितत्वमादाय परैरीन्तरं वाच्यम् । अतो व्यापकत्वमुक्तम् । स्वमते हि पटादेरुक्तभूमे नारोपितत्वम् । किं तु तत्तादात्म्यस्येति तन्निवर्तकधीविषयत्वमेव घटत्वादेः । न तु पटादिनिवर्तकधीविषयत्वमिति स्वानभिमतं तत् । परानभिमतमपि । परस्य तार्किकादेरन्यथाख्यातिस्वीकारेण पटादिनिवर्तकधीविषयत्वस्य घटत्वादिजातावनङ्गीकारात्। अत उभयवाद्यसम्मतसिध्यार्थान्तरं स्यात् । व्यापकत्वनिवेशे तु तादृशप्रकारतायास्सद्रूपेऽपि सत्त्वात्तस्य स्वनिवर्तकधीविषयत्वासिध्या मदिष्टसिद्धिः । न च स्वमते बाधः । घटत्वादे
र्व्यावहारिकपटादिनिवर्तकबुद्ध्यविषयत्वादिति वाच्यम् । जातिमात्रस्य सद्रूपतायाः मूल एव वक्ष्यमाणत्वात् । तादृशप्रकारतावति द्रव्यगुणादौ स्वनिवर्तकधीविषयत्वाभावादनवच्छिन्नेति प्रकारतायामुक्तम् । प्रतियोगिताविषयतादेरनवच्छिन्नप्रकारतास्वीकारे तत्र स्वतादात्म्यभूमीयतादात्म्यविषयतानिरूपितानवच्छिन्नप्रकारतावति स्वनिवर्तकधीविषयत्वाभावेन व्यभिचारात् निरूपितान्तस्थले स्वतादात्म्यसामानाधिकरण्येति वाच्यम् । तथा च 'प्रतियोगी घट' इत्यत्र प्रतियोगितादेविशेषणतासम्बन्धेनैव स्वनिष्ठत्वात् स्वतादात्म्याभावान्न व्यभिचारः । एवं च सामानाधिकरण्यमपि व्यापकत्वस्थाने वक्तुं शक्यम् । द्वितीयसाच्ये तु न प्रकारतायामनवच्छिन्नत्वं देयम् । द्रव्यादौ जातौ च सर्वत्र स्वाभावस्य सिषाधयिषितत्वात् । यथेत्यादेरुदाहरणे तात्पर्यम् । यद्यद्विभज्यते तत् स्वानुगतप्रतिभासे कल्पितम् । यथा रज्जुसादिकमित्यर्थः । एवमित्यादेरुपनयनिगमनयोस्तात्पर्यम् । प्रथमसाध्याभिप्रायेण शङ्कते-न चेत्यादि। गोत्वादिकमनपेक्ष्य कार्यप्रयोजकतायां दृष्टान्तमाह--गोत्वाद्यभ्युपगमेऽ पीत्यादि । व्यक्तिविशेषाणामिति । जातिनिष्ठलौकिकविषयतासम्बन्धेन प्रत्यक्षं प्रति स्वविषयसमवेतत्वसम्बन्धेन प्रत्यक्षस्य कारणत्वात् जातिप्रत्यक्षप्रयोजकस्योक्तसम्बन्धत्य घटकतया व्यक्तीनामुक्तप्रत्यक्षे प्रयोजकत्वाजातिव्यञ्जकत्वमिति भावः । अननुगतानां गोत्वाद्यविशेषितानाम् । ननु, गोत्वादिप्रत्यक्षे सास्नाद्यवच्छिन्नेन्द्रियसंयोगवत् समवायादेविशिष्य हेतुताया आवश्यकलात् । उक्तहेतुत्वे मानाभावस्तत्राह-सास्नादीति । अनुगतानां विशेषितानाम् । सास्नाद्यवच्छिन्नचक्षुस्संयोगवत् समवायादिनिष्ठकारणतावच्छेदकघटकतया व्यक्तीनां गोत्वादिव्यञ्जकत्वमिति भावः। व्यक्तिविशेषविशिष्टत्वेन गवादितत्तव्यक्तिसंसृष्टरूपेण । तद्व्यवहारेति । गौरित्या
For Private and Personal Use Only