________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
अद्वैतमञ्जरी ।
दिव्यवहारेत्यर्थः । गोत्वजातिमत्त्वेन पराभिमताः यावत्यो व्यक्तयस्तावदन्यतमोपरक्तसद्रूपं गौरित्याकारव्यवहारे कारणम् । एवं घट इत्यादिव्यवहारेऽपि बोध्यम् । नन्वेवं गवादिपदानां तत्तव्यक्तिविशिष्टसपे सद्रूपविशिष्टतत्तव्यक्तिषु वा शक्तिर्वाच्या। तथा च तेषां नानार्थकत्वापत्तिः । एवं गवादेः कारणत्वादिकमपि तत्तव्यक्तिघटितावच्छेदकभेदेनानन्तं स्यादिति चेन्न । सर्वगोव्यक्तिषु एकस्या एव शक्तेस्सम्भवेन नानार्थकत्वाभावात् । न चानुगतमेकमवच्छेदकं विना तावद्व्यक्तिनिष्ठा कथमेका शक्यतेति वाच्यम् । तावयक्तिवीजननानुकूला शक्तिर्गोपदे स्वीक्रियते । सा चाखण्डकारणतारूपा । उक्तधीनिष्ठा कार्यताप्यखण्डा । तयोश्चावच्छिन्नत्वे मानाभावान्न कोऽपि धर्मस्तदीयाखण्डावच्छेदकताश्रयः । अत एव शक्तिग्रहनिष्ठकारणत्वमप्येकमेव । 'सद्रूपविशिष्टतव्यक्तिशक्तं गौरिति पद'मित्याकारकेषु शक्तिज्ञानेषु एकस्या एव कारणताया अनवच्छिन्नायाः 'सद्रूपविशिष्टतव्यक्तिरित्याकारकशाब्दबोधं प्रति स्वीकारात् गोत्वजात्याश्रयत्वेन पराभिमतव्यक्तीनामन्यतमस्यैव तव्यक्तिशब्देन कारणकार्यको योनिवेशात् । अत एव घटव्यक्ति तव्यक्तित्वेनावगाहमानादुक्ताकारशक्तिज्ञानान्न गोव्यक्तीनां शाब्दबोधः । तत्र तत्कारणत्वस्यास्वीकारात् । न च तथाप्येकां गोव्यक्तिमवगाहमानाच्छक्तिग्रहादन्यगोव्यक्तिशाब्दधीः स्यादिति वाच्यम् । इष्टत्वात् । गोत्वादिजातिस्वीकारेऽपि गोत्वेनैकगोव्यक्तिविषयकशक्तिज्ञानात् गोत्वेन गोव्यक्त्यन्तरशाब्दबोधस्य मीमांसकादिभिः स्वीकारात् । ननु, कारणत्वादेरखण्डत्वस्वीकारेऽप्यन्वयव्यतिरेकज्ञानस्यैव तद्राहकत्वं वाच्यम् । उक्तज्ञानं च नानुगतैकरूपं विनेति तादृशं गोत्वादिकमवश्यं वाच्यमिति चेन्न । तृणारणिमण्यादिस्थल इवोपस्थितानां त्रिचतुरादिव्यक्तीनां प्रत्येकान्वयव्यतिरेकज्ञानेन कारणता तास्वेव प्रथमतो गृह्यते । पश्चाद्यक्त्यन्तरादपि कार्योत्पत्तिदर्शनात्तत्रापि तस्याः स. म्बन्धोऽस्तीति कल्प्यते । न तु सर्वकारणव्यक्तीनामन्वयव्यतिरेकीस्ताहिका । न हि तृणारणिमणिभ्य एव वह्निरुत्पद्यत इति नियन्तुं शक्यम् । तैलघृतमांसवसादिभ्योऽपि दर्शनात् । न च तावतां प्रथममुपस्थितिरस्ति । येन प्रथमत एव प्रत्येकमन्वयव्यतिरेकधीसम्भवः । यत्तु, कारणत्वादरवच्छिन्नत्वनैवानुभव इति । तन्न । 'धूमो वहिव्याप्य' इत्याद्यनुभवे धूमत्वादौ व्याप्यतावच्छेदकत्वाभानस्य दीधितिकाराद्यक्तत्वेन तद्वदेव 'दण्डो घटकारण मित्याद्यनुभवे दण्डत्वादेः कारणतावच्छेदकत्वामानात् । अथवा तावद्यक्तीनां यावन्ति सद्रूपेण सह तादात्म्यानि तावदन्यतमत्वविशिष्टसम्बन्धेन सद्रूपविशिष्टं गौरिति व्यवहारविषयः । तेन सम्बन्धेन सद्रूपं तत्तत्कारणतादेरवच्छेदकम् । न च गौरवाद्दुर्जेयत्वाञ्चोक्तान्यतमत्वस्य तथा
For Private and Personal Use Only