________________
Shri Mahavir Jain Aradhana Kendra
प्र ० दे परिच्छिन्नत्वनिरुक्तिः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१०३
त्वासम्भवात् गोत्वादेः कल्पनमेव युक्तमिति वाच्यम् । अखण्डस्योक्तान्यतमत्वस्य स्वरूपत एव निवेशेनोक्तदोषाभावात् । क्लृप्तेनैव तेन निर्वाहे गोत्वादिकल्पनस्यायुक्तत्वात् । न चैवं गोव्यक्तीनामन्यतमत्वेनैव गवादेः कारणत्वादिकमास्ताम् । किं सद्रूपस्य तत्कल्पनयेति वाच्यम् । गोत्वादिजातिस्वीकारेऽपि तादृशान्यतमत्वस्य कारणतावच्छेदकत्ववारणाय तस्यावाभ्यामन्यथासिद्धिनिरूपकत्वस्वीकारात् । अत एव सद्रूपास्वीकर्तृबौद्धैरुक्तान्यतमत्वस्यान्यापोहनात्मकस्य गवादिपदवाच्यत्वादिकं स्वीक्रियते । तदेतत्पक्षद्वयमपि भगवतो भर्तृहरेरुक्तिमनुगच्छति । उक्तं हितेन - 'सम्बन्धभेदात् सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ||' तथा 'सा जातिस्सा महासत्ता तामाहुस्त्वतलादयः ।' इति । ताम - हुरिति । गोत्वमित्यादौ सद्रूपमेव त्वादिभावप्रत्ययार्थः । तत्र तादात्म्यसम्बन्धेन प्रकृत्यर्थस्यान्वय इत्यर्थः । न च सद्रूपमात्रस्य त्वादिप्रत्ययशक्यत्वे aa प्रकृत्यर्थस्य भाने निधर्मितावच्छेदक बोधापत्तिरिति वाच्यम् । सद्रूपेण सदन्याप्रकारकधीप्रकारत्वस्वरूपेण तच्छक्यत्वात् । सम्बन्धभेदादिति । तत्तद्भवादिव्यक्त्युपहितत्वरूपस्य तावद्व्यक्तितादात्म्यानामन्यतमत्वविशिष्टरूपस्य वा सम्बन्धस्य भेदादित्यर्थः । न च प्रकृत्यर्थोपलक्षितसद्रूपस्य सर्वत्र सत्त्वात् 'गोस्वमश्ववृत्ती' त्यादिव्यवहारः स्यादिति वाच्यम् । प्रकृत्यर्थविशिष्टसत्ताया एवान्यान्वयात् । अत्रेदं बोध्यम् । गोत्वादिजातीनां सद्रूपतानङ्गीकारेऽपि प्रकृतानुमाने न व्यभिचारः । गवादिव्यक्तीनां गोत्वादिजात्यवच्छिन्नचिति कल्पितत्वेनोक्त जातावपि कल्पितत्वात् । यथा हि पूर्णानन्दरूपे अधिष्ठाने जायमानप्रपञ्चस्य सद्रूपं साधारण आधारः, तथा गवाद्यवयवो गोत्वादिजातिश्वासाधारणाधार इति तत्रापि गवादयः कल्पिताः । न चैवं कल्पितपदस्य तज्ज्ञाननिवत्यर्थकत्वपक्षे व्यभिचार इति वाच्यम् । ब्रह्मसिद्धिकारोक्तानुमान एव तत्पक्षस्वीकारात् । अत एव रज्ज्वा इदमंशे विभज्यत इति मूलम् । न हीदमंशज्ञानेन सर्पादिनिवृत्तिरिति । आचार्यैस्तु यत् जातीनां सद्रूपत्वं विवरणाद्युक्तं व्यवस्थापितम् । तत्रायं भावः । जातीनां सद्रूपत्वं अविद्याशक्तिविशेषरूपत्वं वेति पक्षद्वयमस्मदीयैः कैय्यादिभिश्वाचार्यैरुक्तम् । तत्राद्यपक्षस्य दुष्टत्वात् प्रकृतानुमाने व्यभिचार इति यत् परैरुक्तं तदसङ्गतम् । तस्योक्तयुक्तिभिरदुष्टस्वात् । द्वितीयपक्षे व्यभिचाराभावस्तु स्फुट एव । न च तादृशाविद्याया घटाद्यवच्छिन्नचिद्विषयकत्वे घटादिधीकाले तन्निवृत्त्यापत्तिः । ब्रह्मविषयकत्वे घटत्वपटत्वादिनानाजात्यसम्भवः । न ह्येकपुरुषं प्रति भासमाना ब्रह्माविद्या ना