________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
अद्वैतमञ्जरी ।
नेति सिद्धान्त इति वाच्यम् । अनन्ता हि मूलाज्ञानीयाः कार्यजननानुकूलाः विक्षेपनामकशक्तयो निर्विषयिकाः । आवरणशक्तरेव सविषयकत्वात् । तथा च घटव्यक्तिभिरवच्छिन्ना जलाहरणादिकार्यानुकूला तादृशशक्तिः घटत्वम् । एवं पटत्वादिकमपीति न कोऽपि दोष इति । अत एव उक्तपरिच्छेदानां हेतुत्वसम्भवादेव । सद्रूपे कल्पितं सद्रूपज्ञाननिवर्त्यम् । तदनुविद्धत्वेन सद्रूपतादात्म्येन । प्रतीयमानत्वादित्यत्र प्रत्येकमित्यस्यान्वयः । तथा च घटादीनां सर्वेषां सत्तादात्म्येन प्रतीयमानत्वात् घटादिकं सर्वं सद्रूपज्ञाननिवर्त्यमित्यर्थः । तादृशप्रतीयमानत्वं च तद्योग्यतारूपं ग्राह्यम् । तच्च सदवृत्तित्वविशिष्टं भेदप्रतियोगित्वम् । प्रत्येकं चन्द्रेत्यादि । चन्द्रतादात्म्यधीविषयतायोग्याः जलतरङ्गस्थचन्द्रा इवेत्यर्थः । तादृशयोग्यत्वं च उक्तभेदप्रतियोगित्वमेव । ' चन्द्रोऽयं तरङ्गस्थः सन्निति सत्तादात्म्यमादायैव चन्द्रतादात्म्यप्रतीतेः । अत्र यद्यत् उक्तप्रतियोगित्ववत् तत्तत् सद्रूपधीनिवर्त्यम् । यथा तरङ्गचन्द्र इत्युदाहरणार्थे तात्पर्यम् । कथमिति । तथा च प्रथमानुमाने स्वानुगतप्रतिभासे सद्रूपे कल्पितं घटादीत्युक्तिरसङ्गता । द्वितीयानुमानेऽपि सत्तादात्म्यधीयोग्यतात्वेनोक्तप्रतियोगित्वस्य निवेशो न युक्तः । तस्मात् 'घटः सन्नि' त्यत्र भासमानं घटगतमेव सत्त्वं त्रिकालाबाध्यत्वम् । न तु त्रिकालाबाध्यत्वोपलक्षिताधिष्ठानसद्रूपस्य घटे कल्पितं तादात्म्यमिति भावः । अवच्छेदेनेवेति । तथा चानवच्छिन्नरूपेणैव सद्रूपमावृतमिति भावः । आपातादिति । तथा च शुद्धस्यावृतत्वे विशिष्टस्यापि तदावश्यकम् । अत एव विशिष्टरूपेणापि गुरुत्वादिकमावृतमिति भावः । सदात्मनेति। सद्भानानन्दांशानां मध्ये आनन्दांशरूपेणैव ब्रह्म मूलाज्ञानेनावृतम् । 'पूर्णानन्दो मे न भाती'ति प्रत्ययात् सद्भानरूपे भात इति प्रत्ययाच्च । ननु, तर्हि सद्भानांशयोरनावृतत्वात् घटाकारवृत्त्यभावकालेऽपि 'घटः सन् घटो भाती'ति धीः स्यात् । तत्राहकिं त्वित्यादि । शक्त्यज्ञानेन मूलाज्ञानावस्थारूपाज्ञानेन । नन्वेकाज्ञानपक्षे शक्यज्ञानास्वीकारेण मूलाज्ञानेनैव सद्भानांशाम्यामावृतत्वं ब्रह्मणो वाच्यम् । तत्राह-- तथा चंति । तथा स्वीकारेऽपीत्यर्थः। मूलाज्ञानेनैव सद्भानात्मना ब्रह्मण आवृतत्वस्वीकारपक्षेऽपीति यावत् । अपिशब्दात् पूर्वकल्पसङ्ग्रहः । तदावरणेति । घटाद्यवच्छिन्नावरणेत्यर्थः । भने अभिभवे । यद्येकमेवाज्ञानं, तदा तद्विषयताया घटाद्याकारवृत्तिकाले घटाद्यवच्छेदेनाभिभवात् घटाद्यवच्छेदेन सदानांशयोर्व्यवहारः। तस्याभिभवस्तु, तत्तदाकारवृत्त्यभाववैशिष्ट्यविघटनेन 'सन् घटो भाती'त्यादिव्यवहारे प्रतिबन्धाक्षमत्वम् । तादृशव्यवहारं प्रति हि घटाद्याकारवृत्त्यभावविशिष्टाया एव मूला
For Private and Personal Use Only