________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे परिच्छिन्नत्वनिरुक्तिः ] लघुचन्द्रिका । ज्ञानविषयतायाः प्रतिबन्धकत्वम् । यदि तु मूलाज्ञानस्यावस्थारूपाणि घटाद्यवच्छि. न्नानि अनन्तान्यज्ञानानि स्वीक्रियन्ते, तदा घटाद्याकारवृत्त्या तदुच्छेदेन तथा व्यवहार इति भावः।प्रतिनियतेन्द्रियग्राह्येति । सर्वेन्द्रियाग्राह्येत्यर्थः । हीनत्वेऽपीति। ननु, सदूपस्य चाक्षुषाविषयत्वमेवास्ताम् । न च तथा सति सद्रूपावरणानाशे उक्तव्यवहारानुपपत्तिरिति वाच्यम् । घटादिविषयकवृत्त्यैव घटाद्यवच्छेदेन सद्रूपावरणाभिभावकत्वसम्भवादिति चेन्न । आवरणामिभवाय कल्प्याया वृत्तेविषयत्वस्यावारकाज्ञानविषये सद्रूप एव कल्पनौचित्यात् । अज्ञानस्येव वृत्तेरपि घटाद्यवच्छिन्नविषयताकत्वात् । ननु, सद्रूपस्य सर्वेन्द्रियग्राह्यत्वं विप्रतिपन्नम् । तत्राह-सत्ताया इत्यादि। परैः मीमांसकादिभिः । प्राभाकरमते हि ज्ञानविषयत्वमेव सत्ता । नान्या जात्यादिरूपा। गणादौ जात्यस्वीकारात् । सा च सर्वेन्द्रियजन्यधीविषयः । ज्ञानमात्रस्य घटादिविषयकत्वरूपेण स्वविषयिताशालित्वस्वीकारेण 'घटो मया ज्ञात' इत्याकारकत्वस्यापि स्वीकारात् । न्यायवैशेषिकादिमतेऽपि सत्ताजातिः सर्वेन्द्रियजन्यधीविषयः । सन्निकृष्टतया सत्ताया भाने सामग्रीसत्त्वात् । तथा च तस्यास्सर्वेन्द्रियग्राह्यत्वं न कस्या पि विप्रतिपन्नमिति भावः । अपिशब्दसमुच्चितं सत्तायाः स्वकीयाचार्यसम्मतं सर्वेन्द्रियग्राह्यत्वं प्रकटयति-तदुक्तमिति । अतः अनुभवान्यस्याज्ञातत्वाभावेन प्रमाणाविषयत्वात्।अनुभवः सद्रूप आत्मैव विषयः । तत्र हेतुः-अज्ञातलक्षण इति । जडस्याज्ञातत्वाभावेन न विषयत्वम् । किं तु विषयीभूतसद्रूपावच्छेदकत्वम् । अक्षादीनां इन्द्रियादिजन्यमनोवृत्तीनां दोषजन्याविद्यावृत्तीनां च । स्वतस्सिद्धः अनारोपितः । तस्याविषयत्वे प्रमाणानां प्रमाणता न स्यात् । अज्ञाताबाधितविषयकत्वस्यैव प्रमाणतारूपत्वादित्याह-योति । यत्रैवेत्यर्थः । भूमस्यापि बाधात्पूर्वं प्रमात्वं सद्रूपमादायैव इदमंशावच्छिन्नसद्रूपतादृशविषयकत्वरूपस्य हि इदमंशधीनिष्ठप्रमात्वस्य संसर्गो भूमे समारोप्यते । ननु, ज्ञानविषयत्वरूपा सत्ता प्राचीनप्राभाकराणां मते न सर्वेन्द्रियग्राह्या । ज्ञानस्य स्वविषयत्वाभावेऽपि तादात्म्येन स्वस्यैव स्वस्मिन् स्वव्यवहारप्रयोजकत्वम् । अत एव ज्ञातापि न ज्ञानविषयः । ज्ञानसमवायस्यैव तव्यवहारप्रयोजकत्वादिति हि तैः स्वीक्रियते । मणिकाराद्युक्तनव्यप्राभाकर मत एव हि ज्ञानं स्वस्वाश्रयविषयकमुच्यते। तथा च कथं सत्तायास्तथात्वं सर्वसम्मतम् । तत्राह-कालस्य चेति । 'न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते ।' इति मीमांसकोक्तेज्ञान सर्व किञ्चित्कालावच्छिन्नमेव स्वविषयं गृह्णाति। तत्र स्वाधिकरणक्षणावच्छिन्नत्वेन गृह्णातीत्युत्सर्गः। अत एव धारावाहिज्ञानस्थले ज्ञानानां स्वस्वाविकरणक्षणविशिष्टतया स्वस्वविषयग्राहित्वेनाज्ञातज्ञापकत्व'मिति मीमांसकाः । तस्य
For Private and Personal Use Only