SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी। यानुरोधात् इति । वस्तुतस्तु, तादृशसम्प्रदायो युक्त्यभावाद्धेयः । अत एव दीधितावे. वोक्तम्-'तादृशसम्प्रदायमननुरुन्धानस्य शपथनिराकरणीयतापत्ते'रिति । ईश्वरवादे चमणावुक्तम्-'पक्षेतरत्वादौ विपक्षबाधकतळभावान्न साध्यव्यापकतानिश्चय इत्येवानुपाधित्वे बीज मिति । अत एव स्वबाधकेत्यादेस्सन्दिग्धोपाधित्वमपि नास्ति । दृश्यत्वादिहेतोस्साध्ये व्यापकताग्राहकतर्कसत्त्वात् उक्तोपाधेस्साध्यव्यापकताग्राहकनकर्कासत्त्वात् । उक्तं हि मणौ–'यत्रोपाधिसाध्ययोस्साध्यहेत्वोश्च व्याप्तिग्राहकसाम्यात् नैकत्र व्याप्तिनिश्चयस्तत्रैव सन्दिग्धोपाधित्वम् । व्यभिचारसंशयाधायकत्वात् । यत्र तु एकत्र तर्कावतारः, तत्र हेतुत्वमुपाधित्वं वा निश्चित' मिति । अत्र विपक्षव्यावर्तकत्वेऽपि साधनवद्विपक्षाव्यावर्तकत्वं प्रकृतोपाध्योरस्ति । पर्वतावयववृत्त्यन्यत्वादावप्यस्तीति स एव दृष्टान्तीकृतः । न तु पर्वतेतरत्वादिकम् । तत्र तदभावात् । तथा च पक्षतरतुल्यत्वेन पर्वतावयववृत्त्यन्यत्वादेर्यथा उक्तमणिवाक्येऽनुपाधित्वमुक्तम् । तथा तत्सदृशयोस्स्वबाधकेत्याधुपाध्योरिति भावः । बाधोनीतत्वादिति । पक्षे साध्याभावनिश्चयरूपेण बाधेन निर्णीतसाध्यव्यापकताकत्वादित्यर्थः । यथा 'वह्निरनुष्णः । कृतकत्वा'दित्यादौ पक्षस्य साध्याभाववत्त्वेन निश्चितत्वरूपाद्विपक्षत्वाद्विपक्षाव्यावर्तकविशेषणशून्यत्वेन वहीतरत्वमुपाधिः । तथा स्वबाधकेत्यादिकमपीति भावः । यदिति । यदवच्छिन्नप्रतियोगिताकेत्यर्थः । साधकत्वं व्याप्यत्वम् । तस्य तद्विशिष्टस्य । व्यापकत्वं व्यापकत्वधीः । तथेत्यादि । 'शरीरजन्यत्वं यदि कर्तृजन्यत्वव्यापकं न स्यात् , तदा कर्तृनन्यत्वाभावव्याप्याभावप्रतियोगि न स्या'दिति तर्को नावतरति । लाघवेन जन्यत्वसामान्याभावत्वेनैव व्याप्यतासम्भवेन शरीरविशेषणवैयर्थ्यादिष्टापत्तित्वादिति यथा मण्यादावुक्तम् । तथा 'स्वबाधकेत्यादिकं मिथ्यात्वव्यापकं यदि न स्यात् तदा तदभावव्याप्यस्वाभावकं न स्यादि'त्यापत्तेरिष्टत्वात् लाघवात् दोषप्रयुक्तभानत्वाभावत्वेनैव व्याप्यतासम्भवेन स्वबाधकेत्यादिवैयर्थ्यादित्यर्थः। यत्र तु विशिष्ट प्रतियोगिकाभावत्वेनैव व्याप्यता ।व्यर्थविशेषणत्वाद्यभावात् । तत्र विशिष्टरूपेणापि व्यापकत्वम् । तर्कप्रसरात् । उक्तं हि मणावीश्वरवादे-'धूमविशेषादौ चन्दनवह्नयादेः कारणत्वाद्विपक्षबाधकेन विशिष्टस्य व्यापकत्वात् विशिष्टप्रतियोगिकाभावत्वेनैव हेत्वभावव्याप्यता । यत्र तु विपक्षे बाधकं नास्ति, तत्र विशिष्टव्यापकता नास्ती'त्यादि । न च शरीरजन्यत्वाभावे जन्यत्वसामान्यामावत्वस्यासत्त्वात् तत्र शरीरांशस्य तेन न वैयर्थ्यम् । धूमत्वेनेव धूमप्रागभावत्वादेः । स्वसमानाधिकरणव्याप्यतावच्छेदकान्तरघटितत्वस्य व्यर्थ१. 'धूमत्वेनेव धूमप्रागभाव प्रागभावत्वादेः' इंति पाठान्तरम् ।। For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy