________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे उपाधिभङ्गः]
लघुचन्द्रिका।
पर्यवसितार्थः । आकाशाद्यमावधिय आकाशादिबाधकब्रह्मज्ञानबाध्यत्वात् आकाशादावुक्तोपाध्यभावेनोक्तोपाधेस्साधनाव्यापकता । विपक्षेत्यादि । विपक्षात् ब्रह्मणः तुच्छाच्च व्यावृत्तम् । अतस्समव्याप्तमित्यर्थः । उदयनादिमते समव्याप्तस्यैवोपाधित्वादिदमुक्तम् । अत एव समव्याप्तत्वादेव । व्यतिरेकव्याप्तिमदिति । ययोः व्यतिरेकव्याप्तिः तयोरेव व्याप्यवृत्तिव्यतिरेकिणोरन्वयव्याप्तिः । अत एव पक्षेतरत्वं नोपाधिः । व्यर्थविशेषणत्वेन व्यतिरेके व्याप्त्यमावादिति मते । साध्यान्वयव्यतिरेकोन्नायकस्वान्वयव्यतिरेकवत्त्वरूपसाध्यप्रयोजकत्वघटितमुपाधित्वम् । अत एव पक्षेतरत्वे न तदिति मते चोपाधित्वसम्पादनायेदमुक्तम् । साध्याभावव्याप्यस्वाभावकत्वमिति तदर्थः । साधनवदित्यादि । पर्वतावयवावृत्तित्वस्य विशेषणस्य पर्वतावयवरूपादितो विपक्षायावर्तकत्वमस्ति । एवं स्वबाधकेत्यादिविशेषणस्यापि वासनादिदोषप्रयुक्तविकल्पविषयादलीकाव्यावर्तकत्वमस्तीत्यतस्साधनवदित्युक्तम् । तथा च साधनवत्पक्षव्यावर्तकं यत् साधनवद्विपक्षाव्यावर्तकं विशेषणं तद्वत्त्वेनेत्यर्थः । साधनवद्विपक्षनिष्ठभेदप्रतियोगितावच्छेदकताया यनिष्ठाया अनवच्छेदकं यत् विशेषणं तत्र तत् साधनवद्विपक्षाव्यावर्तकम् । अन्यत्वादिनिष्ठाया उक्तावच्छेदकताया अनवच्छेदकं पर्वतावयववृत्त्यादिकम् । 'पर्वतो धूमवान् वढे'रित्यादौ साधनवद्विपक्षे अयःपिण्डादौ पर्वतावयववृत्त्यन्यत्वादिमतो भेदासत्त्वात् । यद्यपि स्वबाधकेत्याशुपाधौ प्रकृतसाधनवान् विपक्षोऽप्रसिद्धः, तथापि यद्विशेषणघटितस्य यस्योपाधेराश्रयात् भिन्ने यावधर्मिणि प्रकृतसाधनवत्त्वविपक्षत्वोभयाभावोऽस्ति । तत् तत्र साधनवद्विपक्षाव्यावर्तकमिति बोध्यम् । आऽन्धनस्य तु आर्द्रत्वविशेषणं साधनवद्विपक्षव्यावर्तकमिति तदुपाधिः । पक्षेतरतुल्यत्वादिति । यथा साधनवत्पक्षमात्रव्यावर्तकविशेषणत्वात् पक्षेतरत्वादिकं नोपाधिः । न वोपाधित्वेन कथायामुद्भाव्यते, तथा पर्वतावयववृत्त्यन्यत्वादिकं स्वबाधकेत्यादिकं च तर्काभावेन पक्षे व्यभिचारसंशयेन प्रतिबन्धेन साध्यव्यापकत्वानिश्चयात् । उक्तं हि मणौ-'न हि पक्षेतरत्वे स्वव्याघातकत्वेनानुपाधावुपाधिलक्षणस्यातिव्याप्तिः । तत्रानुकूलतर्काभावेन व्यापकत्वानिश्चयात् । बाधोन्नीते च तर्कोऽस्त्येव । एवं पर्वतावयववृत्त्यन्यत्वादिकं नोपाधिः । पक्षमात्रव्यावर्तकविशेषणवत्त्वात्' इति । उक्तं चतत्र दीधितौ---' तर्कादिना व्यापकत्वनिश्चये तु पक्षेतरत्वमपि बाधोन्नीतपक्षेतरत्ववत् निश्चितोपाधिः । पक्षमात्रव्यावर्तकविशेषणवत्त्वं तु नानुपाधितायां बीजम् । परिभाषामात्रत्वात् । किं तूक्तविशेषणस्थले अनुकूलतर्काभावेन व्यापकत्वानिश्चय' इति । तथा बाधानुन्नीतः पक्षेतरो नोपाधित्वेन कथायामुद्भाव्यः । कथकसंप्रदा
For Private and Personal Use Only