________________
Shri Mahavir Jain Aradhana Kendra
प्र ० दे उपाधिभङ्गः ]
www.kobatirth.org
लघुचन्द्रिका |
विशेषणतारूपत्वादिति वाच्यम् । विशेष्यविशेषणाभावयोरेव विशिष्ठाभावत्वात् येन विशेषणेन विनापि व्याप्तिर्गृह्यते, तदेव व्यर्थविशेषणमिति स्वीकाराच्च । उक्तं हि मणौ-‘उक्तस्थले शरीराजन्यत्वे व्यर्थविशेषणत्वम् । लाघवेनाजन्यत्वस्यैव व्याप्यत्वात् । येन विशेषणेन विना व्याप्तिर्न गृह्यते । तस्यैव व्याप्यतावच्छेदकत्वनियमात् । अत एव घ्राणं पार्थिवम् । रूपादिषु मध्ये गन्धस्यैव व्यञ्जकत्वात् । इत्यादौ रूपादिषु मध्ये इति असिद्धिमात्र वारकमपि न व्यर्थम् । तेन विना व्यात्यग्रहादिति । किं च तर्काप्रसरादित्यनेन व्यापकता ग्राहकतर्कमात्रमुपाधित्वे बीअमित्युक्तत् । पूर्वोक्तमणिवाक्येऽपि तथोक्तम् । तथा च व्यर्थविशेषणत्वाभावेsपि शरीरजन्यत्वं यथा नोपाधिः । तादृशतर्काभावात् । तथा स्वबाधकेत्या - दिकमित्यत्र प्रकृतग्रन्थतात्पर्यम् । व्यतिरेके व्यर्थत्वं तु तादृशतकमसरबीजोपलक्षणत्वेनोक्तम् । ननु, यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वम्। तस्मिन् साध्ये श्यामत्वमुपाधिः । तथा दृश्यत्वादिना मिथ्यात्वे साध्ये दोषप्रयुक्तभानत्वम् । तस्मिन् साध्ये मिथ्यात्वमुपाधिरस्तु । युगपदुभयसाधने तु अप्राप्तकालत्वम् । मिध्यात्वे एव केवले विप्रतिपत्तेः । तत्राह - दृश्यत्वादिनेति । युगपदुभयसाधनेऽपि नाप्राप्तकालत्वम् । मिथ्यात्वत्वावच्छिन्नविधेयताकानुमितेरेव प्राप्तकालत्वात् । समूहालम्बनानुमितेरपि तथात्वात् । अथ यथा पर्वतावयववृत्तीतिविशेषणकृता पर्वतावयवरूपादेर्व्यावृत्तिर्नोपाधितायां उपयुज्यते । किं तु पक्षव्यावृत्तिरेव । साधनाव्यापकत्वसम्पादकत्वात् । अत उपाधित्वौपयिकी या विपक्षव्यावृत्तिः तदसम्पादकत्वादुक्तविशेषणस्य पक्षमात्रव्यावर्तकत्वं मण्यादायुक्तम् । स्पष्टं चेदं दीधित्यादौ । तथा: समव्याप्तिसम्पादकस्याप्यधिष्ठानेत्यादिविशेषणस्य यत् ब्रह्मव्यावर्तकत्वं तस्य साध्यासमानाधिकरणस्याधिकरणं यत् साधनवदित्यादिपूर्वोक्तोपाधिलक्षणानौपयिकत्वात् । साधनाव्यापकत्वसम्पादकविपक्षव्यावृत्त्यसम्पादकत्वेन पक्षमात्रव्यावर्तकत्वमक्षतम् । आर्द्रेन्धनादेस्तु आर्द्रत्वादिविशेषणकृतायोगोलकादिव्यावृत्तिः साधनाव्यापकत्वसम्पादकत्वादुपाधित्वौपयिकीत्याशयेनाह — अतएवेति । समव्याप्तिसम्पादकत्वेऽप्युक्तरीत्या पक्षमात्रव्यावर्तकत्वादेवेत्यर्थः । ब्रह्मणीवेत्यादि । स्वजनकाज्ञानविषयावच्छेदकत्वरूपाधिष्ठानत्वघटितोतोपाधिर्यथा ब्रह्माणि नास्ति । तज्जनकाज्ञानाप्रसिद्धेः । तथा तत्र कल्पिते क्षणिकत्वादावपि । तज्जनकाज्ञानविषयब्रह्मावच्छेदकत्वाप्रसिद्धेः ॥ तत्प्रसिद्धिस्तु शुक्तिरूप्यादौ । खंजनकाज्ञानविषयसमसत्ताकदोषनिवेशे तु तत्राव्यप्रसिद्ध्या साध्याव्यापकत्वमपि । ब्रह्ममात्रेति । अवान्तरसात्पर्यविषयत्वं यागादिनिष्ठे स्वर्गादिसाधनत्वे । न तु यागादौ । 'अर्गेऽनुपलब्धे तत्प्रमाण' मिति जै
-
4
Acharya Shri Kailassagarsuri Gyanmandir
११५
For Private and Personal Use Only
-