________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नन्दनशरत्तुलामासमारभ्य प्रतिमासं प्रचार्यमाणगुच्छ शोभितामद्वैतमञ्जरी प्रथममलंकुर्वाणा श्रीमधुसूदनसरस्वतीविरचिता अद्वैतसिद्धिः तव्याख्या ब्रह्मानन्दसरखतीविरचिता लघुचन्द्रिका च श्रीमच्छङ्करभगवत्पादविरचितदशश्लोकीव्याख्या सिद्धान्तबिन्दुश्च ब्रह्मानन्दयतीन्द्रविरचितरत्नावल्याख्यटीकासहितः सम्पूर्णा विजयन्तेतराम् । तदहमर्थये साञ्जलिबन्धनमस्मन्मताभिमानिनः समर्पयत सादरां कारुण्यदृष्टिं सफलयत अनवरताद्वैतग्रन्थविचारेण मुद्रणप्रयासम् । अनुभवत च निश्शङ्कमद्वैतसाम्राज्यसर्वस्वम् । अनुगृह्णीत च तथा, यथेयमद्वैतमञ्जरी प्राचीनास्माकमन्थगुच्छगुम्भिता इतःपरमप्यविच्छिन्नगुच्छप्रसरा समाह्लादयन्ती अध्यात्मविद्याविचारकुतूहलिनां मनांसि आसादयन्ती च सज्जनप्रेमभाजनतां चिरं जेजीयेतेति । सहन्तां च विवन्मणयः अनवधानप्रयुक्तां क्वाचित्कीमक्षरच्युतिम् । प्रसीदन्तु चानेन श्रीमच्छङ्करभगवत्पादचरणा इत्यशेषमतिरमणीयम् ॥
अद्वैतामृतमञ्जरीशकरुणापूरेण संवर्धिता विद्वन्मानसचञ्चरीकनिवहैरास्वाद्यमाना भृशम् । श्रीविद्याकबरीभरेषु सततं भूषायमाणा चिरं श्रीमत्साम्बाशवार्यसत्तरुशिखालम्बा विजेजीयताम् ॥
इति गोष्ठीपुराभिजनः
हरिहरशास्त्री.
For Private and Personal Use Only