SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्र०दे प्रतिकर्मव्यवस्था ] www.kobatirth.org लघुचन्द्रिका | Acharya Shri Kailassagarsuri Gyanmandir २६५ णतः।। 'इति वार्तिकम् । प्रकाशकमिति ! साक्षिचित् प्रकाशिका । तदुक्तं सिद्धान्तविन्दौ— सर्वानुसन्धातृ चैतन्यं जीवेशानुगतं साक्षीत्युच्यते' इति । तथा च बिम्बप्रतिबिम्वचितोरीशजीवत्वपक्षे शुद्धचिदेव तदुभयानुगता साक्षिणी जगदुपादानम् । अविद्याप्रतिविम्बमनःप्रतिविम्बयोरीशजीवत्वे तु अविद्याविम्बत्वोपहिता चित्तथा । अविद्यामनोगतचिदाभासयोरीशजीवत्वे त्वीश एव तथा । तत्र आद्यः पक्षो विवरणकृतः । द्वितीयः संक्षेपशारीरककृतः । तृतीयः वार्तिककृतः । वाचस्पतिमते तु जीव एव तथा । तस्यैवाविद्याविषयत्वोपहिते ईशे तादात्म्येनानुगतत्वात् । घत्वद्रव्यत्वोपहितयोरिवाविद्याविषयत्वाश्रयत्वोपहितयोस्तादात्म्यसम्भवात्तयोरिव भेदस्यापि सत्त्वात् नेशजीवसाङ्कर्यम् । न हि द्रव्यत्वघटत्वोपहितयोरत्यन्ताभेदः । ईशं प्रति दृश्यमात्रस्यानावृतत्वात् तं प्रति जीवस्य भासकत्वं न वृत्तिसापेक्षमिति दिक् । कल्पनान्तरेति । भातीतिव्यवहारे विषयसंश्लिष्टवृत्तिप्रतिविम्बितचितः प्रयोजकत्वे सुखादौ तदसम्भवादनावृतचित्तादात्म्यस्यापि तत्कल्पनया तत्रापि वृत्तिकल्पनया च गौरवं वृत्तावपि वृत्त्यन्तरकल्पनाप्रयुक्तानवस्था चेति भावः । निर्विकल्पकरूपं तार्किकादिसम्मत निर्विकल्पकतुल्यम् । जानामीत्यादिव्यवहाराविषय इति यावत् । आच्छादितेति । यथा सूक्ष्मवस्त्राद्यावृतो दीपो - ऽन्वतमसविरोच्यप्यनन्धतमसाविरोधित्वाद्रव्यत्वादिरूपेणैव घटादेर्व्यवहारे प्रयोजकः न तु रूपविशेषादिमत्त्वेन तथानभिव्यक्तं चैतन्यमज्ञातत्वेनैव तद्व्यवहारे न तु ज्ञातत्वादिति भावः । आपन्नजाड्येति । अनभिव्यक्तीत्यर्थः । आपादकत्वं सम्पादकत्वम् । अभिभावकत्वं अभिभवप्रयोजकतावच्छेदकरूपवत्त्वम् । प्रयोज्यत्वेन घटितत्वेन । स्वप्रतिबिम्बवद्वृत्त्याकारत्वस्यैवोक्तसम्बन्धरूपत्वात्ततदाकारक वृत्तिज्ञानत्वस्यैवोक्ताभिभवप्रयोजकतावच्छेदकत्वाच्चोत्ततत्तदाकारत्वस्योरूपत्वे आत्माश्रय इति भावः । अस्तीत्यादीत्यादिपदात् सन्निति व्यवहारसङ्ग्रहः । अज्ञानेत्यनेनासत्त्वापाद काज्ञानमुक्तम् । तत्सन्निकृष्टेति । तदीयव्याप्तिज्ञानादिरूपेत्यर्थः । जन्यत्वस्य जन्यतावच्छेदकस्य तदीयो यः आकाराख्यंस्सम्बन्धविशेषः तद्विशिष्टत्वस्येति यावत् । यद्यप्युक्ताज्ञाननिवृत्तियोग्यत्वमपि तदेव, तथापि तादशसम्बन्धस्योक्तनिवृत्तिजनकत्वे व्याप्तिज्ञानादिजन्यत्वे चावच्छेदकीभूयोपपादकत्वेन स आवश्यक इति ज्ञापनाय द्वैविध्योक्तिरित्याशयेनाह - त दुभयमिति । तदुभयात्मक आकाराख्यस्सम्बन्धः । स्वकारणेत्यादि । स्वस्य वृत्तिज्ञानस्य कारणाधीनात् स्वभावविशेषात् अनुगतरूपेणैव कारणनियम्यत्वादनुगतरूपेणैव कार्यनियामकत्वाच्च । तथा चोक्तसम्बन्धं विना तयोरसम्भवात् स ३४ For Private and Personal Use Only -
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy