SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी । आवश्यकः । तस्य च युक्तिदुष्टतायाः पूर्वमुक्तत्वेऽप्यनिर्वाच्यत्वात् 'घटं जानामीत्यादिसाक्ष्यनुभवसिद्धत्वाच्च नापलाप इति भावः । ननूक्तनिवृत्तिजनकतावच्छेदकरूपवत्त्वेनोक्तनिवृत्तिजनकत्वे आत्माश्रयः । जनकतायां तद्धटितस्यावच्छेदकत्वात् । तत्राह-न चेति । स्वरूपयोग्यतया तत्तदाकारकत्वेन । तथा च तदाकारतात्वेनैवावच्छेदके निवेशः । न तु निवृत्तिजनकतावच्छेदकत्वेनेति भावः । दृग्भिन्नत्वात् भासकान्यत्वात् । ब्रह्मणोऽपीति । दृश्यत्वादिति शेषः । एकधेति । ननु, धाप्रत्ययस्य प्रकारोऽर्थः । स च विशेषणीभूतो विषय इति कथमुक्तश्रुतिबलात् निविकल्पकस्य मोक्षहेतुतेति चेन्न । न हि धीविशेषणरूपप्रकारार्थक एव धाप्रत्यय इति नियमः । एकधा भुक्तमित्यादौ तदसम्भवात् । किं तु क्वचित् कश्चन प्रकार इति प्रकृते विषयमात्ररूप एव प्रकार आत्मदर्शने बुध्यते । इत्यादीत्यादिपदात् अव्यवहार्यमलक्षणं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थ मन्यन्ते सोऽयमात्मा स विज्ञेय'इत्यादिश्रुतिसंग्रहः । कारणात्मना सूक्ष्मरूपेण । साधारणस्य साधारणानुगतरूपस्य । अवस्थानां भेदेऽप्यवस्थास्वनुगतरूपं प्रत्यभिज्ञादिबलात् स्वीक्रियत इत्युक्तं अन्यतरत्वेन वोपाधित्वमिति भावः । उद्धृतरूपहीनेऽपि गुहाकाशादौ मुखाद्यवच्छिन्नशब्दादिप्रतिबिम्बनोपाधितादृष्टेः शब्दान्येति । स्वच्छत्वं प्रतिबिम्बनोपाधितायोग्यत्वम् । प्रकाशस्वभावत्वेन उक्तोपाधिताविरोधिरूपहीनत्वेन । अस्त्येवेति । अनुगतरूपेणोपाधीनामेकस्य हेतुत्वस्यासम्भवात् प्रतिबिम्बरूपफलं दृष्ट्वा तदनुसारेण तत् कल्प्यत इति भावः । सत्त्वात्मकताया अपीत्यपिशब्देनेदं सूचितम् । सत्त्वात्मकत्वमपि नोपाधितायां प्रयोजकम् । जीवेशभेदे अविद्याचित्सम्बन्धादौ चाविद्यानात्मकेऽपि तत्स्वीकारात् । अन्यथा तस्य भास्यत्वानुपपत्तेरिति । दर्शनादिति । तथा च दर्शनमेव नियामकम् । यद्यप्याकाशादेः प्रतिबिम्बितत्वं वाचस्पत्यादिभिर्विप्रतिपन्नं, तथापि विवरणकारादिसम्मतमेव । कथमिति । स्वप्रतिबिम्बवद्वृत्तिसंयुक्तसमवायरूपस्योपरागस्य रूप इव रसादावपि सत्त्वादिति भावः । रूपं प्रत्येवेति । रूपावच्छिनमज्ञानं चाक्षुषवृत्त्यवच्निचिता निवर्त्यते । न तु रसाद्यवच्छिन्नाज्ञानमित्यर्थः । तथा च चिदुपरागसत्त्वेऽपि रसादावज्ञानसत्त्वान्न प्रकाश इति भावः । ननु, य. था प्रभा चक्षुस्सहकारित्वात् तद्राह्यस्यैव भासिका, तथा चिदपि स्यात्तत्राह-प्रभायामिति । सहकारित्वेति । ग्राह्यभासकत्वेत्यर्थः । विलम्बेन अभावेन । विलम्बस्य गन्धाद्यभासकत्वस्य । यदि स्वप्रतिबिम्बवद्वत्तिसंश्लेषसम्बन्धेन चितो भासकत्वं, तदा आश्रयद्वारेत्युक्तम् । यदि तु तत्संसृष्टवृत्त्यवच्छिन्नचितस्सर्वगतत्वनियामकसम्बन्धेन भासकत्वं तदाह-साक्षाद्वति । आश्रयाद्वारा वेत्यर्थः । तेन For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy