________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
अद्वैतमञ्जरी ।
भावो बाधकं विना तत्सामान्ययोरपि स'इति न्यायादज्ञानतमोऽन्यतरनाशं प्रति संयोगेन संयुक्तसमवायादिना च सम्बन्धेन तेजस्त्वेन हेतुत्वम् । न चैवं विशेषतः कार्यकारणभावो व्यर्थ इति वाच्यम् । आलोकसंयोगे सति मनश्चक्षुरादिभिस्सह घटादेः संयोगे चासति घटादौ शाब्दादिवृत्त्या आवरणनिवृत्त्यापत्तेश्चक्षुरादिसंयोगे सति आलोकसंयोगे चासति मनोवृत्त्यावरणनिवृत्त्यापत्तेविषयत्वसंश्लेषोभयसम्बन्धेन मनोवृत्तेरभानापादकाज्ञाननाशे हेतुत्वं संयोगाद्यन्यतमसम्बन्धेन प्रभायाम्तमोनाशे हेतुत्वमित्यस्यावश्यकत्वात् । अवच्छेदकत्वसम्बन्ध एवो कोमयसम्बन्धस्थानीयो लाघवादिति तूक्तम् । एवं चापरोक्षत्वजातेस्तद्विशिष्टोत्पत्तौ शाब्दादिसामग्या नियामकत्वस्य चाकल्पनालाघवम् । सन्निकृष्टतेजःकारणत्वेति । सन्निकर्षसम्बन्धे न मनोवृत्तिकारणत्वेत्यर्थः । तत्रावरणभङ्गे कारणत्वं तत्कार्यप्रवृत्यादिकारणत्वं बोध्यम् । वृत्तेहि नाज्ञाननाशे हेतुत्वम् । किं त्वावरणविरोधित्वमात्रम् । आलोकस्यापि तमोध्वंसरूपत्वाचाक्षुषादिमनोवृत्त्यादिरूपकार्ये हेतुत्वम् । न तु तमोनाश इति बोध्यम् । तस्य मनस्सन्निकर्षस्य । चक्षुरादेरिव मनसोऽपि सन्निकर्षश्चाक्षुषादिकार्य हेतुः । विनिगमकाभावात् । यदि हि मनो न स्थूल तार्किकादिमतवत् स्यात्, तदा तस्य जीवनकाले देहात् बहिरगमनान्न घटादिसन्निकर्षसम्भवः। यदा तु युगपद्धस्तपादाद्यवच्छेदेन सुखदुःखादिनानापरिणामभागित्वेन स्थूलं, तदा चक्षुरादितुल्यत्वेन तत्सन्निकर्षः कथं न चाक्षुषादिहेतुः । चाक्षुषादिहेनुतावच्छेदकजातिविशेषस्य तत्रापि सम्भवात्। चक्षुरादेर्मनोमिश्रितत्वात् घटादिसंयुक्तचक्षुरादिभागावच्छेदेनापि तदितरचक्षुरादिभागावच्छेदेनेव विनिगमकाभावेन चक्षुरादौ मनससंयोगस्य चाक्षुषाद्युत्पत्तिकाले सत्त्वात् घटादौ मनस्संयोगस्यावश्यकत्वाच्च । न हि मनश्चक्षुरादेरेकदेश एव संयुज्यत इति नियन्तुं शक्यते । किं तु विशरारुतेजोभागबहुलत्वेन तदीयसर्वभागेषु । तथा च चक्षुरादेः क्रियैव मनसो घटादिसंयोगे हेतुः । एवं च घटादौ संयुज्यमान चक्षुरादिमिश्रितं मन एव घटाद्याकारवृत्तिः चक्षुरा. दिसंयोगनान्तरीयकत्वात् तज्जन्यतया व्यवहियते । न तु सा तज्जन्येति लाघवम् । तादृशवृत्तौ चक्षुरादिक्रियाया अपि न हेतुत्वम्। प्रयोजनाभावात् । संयोगविशेष एव घटादिनिष्ठे तस्या हेतुत्वम् । तदर्थमेव चक्षुरादियुक्तमनःक्रियायां प्रमातृप्रवृत्तिरिति संक्षेपः । अधिष्ठानस्येति । कर्णादिकं यथा श्रोत्रादेरधिष्ठानं, तथा त्वमेव त्वगिन्द्रियस्याधिछानमिति भावः। तेजस्त्वस्येति । विषयसंयुक्तेन्द्रियसंयुक्तमनस्त्वस्येत्यपि बोध्यम् । तत्प्रमापकस्य विषयसंसृष्टत्वप्रमापकस्य । ज्ञानवत् चाक्षुषादिमनोवृत्ताविव । परागित्यादि। परागर्थप्रमेयषु या फलत्वेन सम्मता । संवित् सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमा.
For Private and Personal Use Only