________________
Shri Mahavir Jain Aradhana Kendra
प्रथमपरिच्छेदः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
११
स्यैव प्रकृते पक्षतावच्छेदके निवेशादलीक प्रतियोगितादात्म्यमादाय नोक्तदोषः । ननु, माध्वादिमते शुक्तिरूप्यादेरलीकता स्वीकारा 'दिदं रूप्यं सदि' त्याकारभ्रमेण तसत्प्रतियोगितादात्म्यावगाहनान्माध्वादीन् प्रति न्यायप्रयोगे बाधः । सदसद्विलक्षणत्वादिसाध्यस्य तत्राभावात् । न चाबाध्यत्वान्तविशेषणेन तस्य वारणम् । अलीकस्य ज्ञानोच्छेद्यतारूपज्ञानवाध्यत्वाभावादिति चेन्न । तन्मते भ्रमस्यासत्ख्यातित्वस्वीकारेणानिर्वचनीयख्यात्यनभ्युपगमेन तादात्म्यादिसम्बन्धस्याप्यलीकस्यैव भ्रमे भानात् । अनलीकस्य भानस्वीकारे तस्य सद्रपत्वेन अत्यन्ताभावप्रतियोगित्वप्रत्ययानुपपत्तेः । अलीकस्यैव तन्मते अत्यन्ताभावप्रतियोगित्वात् रूप्यादेरलीकान्यत्वापत्त्या अधिष्ठानान्यभ्रमविषयस्यालीकत्वनियमाञ्च । सत्स्वरूपस्यैव तादात्म्यस्य तत्र भाने अलीकरूप्यादौ तदनुयोगित्वाभावादली के रूप्यादिनिष्ठे तादात्म्ये सत्प्रतियोगिकत्वस्येव सदूपे अलीकानुयोगिकत्वस्याभावात् सदसतोरुपरागाभावात् शुक्तिरूप्यादौ सत्प्रतियोगितादात्म्यानुयोगित्वरूपपक्षतावच्छेदकाभावेन तत्र बाधोक्त्यसम्भवात् । वक्ष्यमाणरीत्या सदसद्भिन्नत्वस्य माध्वं प्रत्यसाध्यत्वेन तं प्रति बाधाभावाच्च । न चैवमपि तन्मते शुक्तिरूप्यादौ साध्यवैकल्यम् । तं प्रति सद्विविक्तत्वादिवक्ष्यमाणमिथ्यात्वस्यैव साध्यत्वात् । ननु, सद्रूपं शुद्धचिदेव । तत्प्रतियोगिकत्ववि - शिष्टतादात्म्यत्वावच्छिन्नाधिकरणत्वं च तस्यां नास्तीति चिद्भिन्नत्वविशेषणं व्यर्थमिति चेत् । सत्यम् । उक्ताधिकरणत्वनिवेशे चिन्नित्वं न देयम् । तत्प्रतियोगिकस्य तादात्म्यस्याधिकरणत्वमात्रनिवेशाभिप्रायेण दत्तम् । ननु तादृशतादात्म्यस्यापक्षत्वापत्तिः । तस्य स्वस्मिन्नभावात् । तादात्म्ये तादात्म्यान्तरस्यानवस्थापत्त्या अनङ्गीकारादिति चेन्न । घटाद्यभावस्येव तस्य स्वस्मिन् स्वरूपसम्बन्धेन वृत्तिस्वीकारात् । घटाभावे घटो नास्तीतिवत् सत्तादात्म्यं सदिति प्रतीतेः । अथ घटादिदृश्यमात्रस्य सत्तादात्म्यवत्त्वे किं मानमिति चेत् । शुक्तिरूप्यादेरिदमादितादात्म्यवत्त्व इव परस्पराध्यासानुभवादिकम् । तथाहि--' इदं रजत ' मित्यादिभ्रमस्थले 'इदं रजतं जानामि रजतमिदं जानामी' त्याकारद्वयानुभवादिदमादिविषयतावच्छिन्नं रजततादात्म्यादिविषयत्वं रजतादिविषयतावच्छिन्नं इदमादितादात्म्यविषयत्वं च चिद्रूपानुभवनिष्ठं भातीति स्वीक्रियते । एवं 'इदं रजतं रजतमिद' मिति यत् ज्ञानं तत् मिध्येति बाधकप्रत्ययेन विषयविशिष्टभ्रमस्य मिथ्यात्वावगाहनात् । भ्रमस्येव तद्विषयाणामपि भ्रमकालीनबाध कधी बाध्यत्वं तत्राप्युक्तवाधवी कालेऽपीदमर्थस्य ता
१. 'नियमानापत्तेश्व' इति ख. पाठः