________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
दृशधीमता पुरुषेणांगुल्या प्रदर्थमानस्य स्वरूपतः सत्यत्वानुभवात्तस्य व्यावहारिकस्वरूपत्वनिश्चयेन स्वरूपतो मिथ्यात्वानिश्चयेन मिथ्यात्वेन निश्चीयमानतादाम्योपहितरूपेण मिथ्यात्वनिश्चयः । रजतादितत्तादात्म्ययोस्तु स्वरूपतोऽपि स इतीदमाद्यवच्छेदेन रजतादिकं तत्तादात्म्यं रजतत्वादेस्संसर्गश्च रजताद्यवच्छेदेनेदमादेस्तादात्म्यमिदंत्वादेस्संसर्गश्चेति जायते । भ्रमस्थले भ्रमकाले बाध्यस्योत्पत्तिस्वीकारात्तस्य प्रातीतिकत्वेन भ्रमपूर्वमविद्यमानत्वात् । नन्वेकेन तादात्म्येनेदंरजतयोराकारद्वये परस्परं प्रति विशेषणतया मानसंभवात् तादात्म्यद्वयोत्पत्तौ मानाभाव इति चेन्न । आकारभेदानुपपत्तेः । आकारो हि ज्ञानानां मिथो वैलक्षण्यम् । तच्च विभिन्नविषयत्वरूपं न तु विषयिताविशेषमानम् । तथा सति बहिर्विषयमात्रलोपापत्त्या साकारवादापत्तेः । तदुक्तमुदयनाचार्यादिभिः-'अर्थेनैव विशेषो हि नि राकास्तया धिया' मिति । अर्थेन ज्ञानादत्यन्तभिन्नेन घटादिरूपेण विषयेणाभिन्नो धियां विशेषः । निराकारतया ज्ञानधर्मरूपाकारेण घटादिना विषयितास्थानीयेन हीनतया । तथा च घटादिकं विषयितास्थानीयो ज्ञानधर्मो ज्ञानात् भिन्नाभिन्नतया बौद्धैर्यदुच्यते । तथा न । किं तु ज्ञानादत्यन्तभिन्नम् । तथैवानुभवादिति भावः । तथा चेदंप्रतियोगिकरजतप्रतियोगिकतादात्म्ययोभिन्नयोराकारयोरुत्पत्तिरावश्यिकी। किं च 'इदं रजत' मित्यादिधीस्थले रजततादात्म्यविषयत्वं इदंविषयत्वेनावच्छिन्नम् । इदंतादात्म्यविषयत्वं च रजतविषयत्वेनावच्छिन्नमित्याकारद्वयं प्रतीयत इत्युक्तम् । तच्च तादात्म्यस्यैकत्वे नोपपद्यते । रजततादात्म्यादिविषयताया इदंविषयतावच्छेद्यत्वे रजतादिविषयताया अपीदंविषयतावच्छेद्ये विशेषणत्वादिदंविषयतावच्छेद्यत्वेन नेदंतादात्म्यादिविषयितावच्छेदकत्वसंभवः । अवच्छेद्ये विशेषणीभूतायामिदंविषयितायामवच्छेदकत्वासंभवात् । न च रजतमिदं जानामी' त्यादिप्रत्यये रजतादिविषयतावच्छिन्नत्वमिदंविषयताविशिष्टे तादात्म्यविषयत्वे न भाति । किं तु केवल इति वाच्यम् । तथा सति विशेषणविषयत्वे विशेष्यविषयतावच्छिन्नत्वस्यासिध्यापातात् न हि तदनुभवः पृथगस्ति । न च तदसिद्धमेव । सर्वानुभवासद्धत्वात् । नन्वास्तामिदमादिविषयत्वरजतादिविषयत्वयोः परस्परावच्छिन्नत्वमिति चेन्न । प्रसिद्धावच्छेदकस्य मूलादेस्तदवच्छिन्नसंयोगाद्यवच्छिन्नत्वाननुभवेन विषयत्वयोरपि परस्परावच्छिन्नत्वाकल्पनात् । दृष्टान्तानुसारेणैव कल्पनात् । न च मूलादिनिष्ठावच्छेदकत्वाद्विलक्षणं विषयत्वनिष्ठमवच्छेदकत्वमिति वाच्यम् । विलक्षणत्वासिद्धेः । मूलादिनिष्ठावच्छेदकताजातीयस्यैवावच्छेदकत्वस्य विषयत्वे अनुभवात् । विषयता हि विषयेषु ज्ञानस्य तादात्म्यम् । न तु वृत्तेराकाराख्यसंबन्धः ।
For Private and Personal Use Only