________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
तयेति । तव्यक्तित्वादिरूपलघुरूपविशिष्टयेत्यर्थः । तथाच ब्रह्मज्ञानेत्यायुक्तरूपेण परिचितपूर्वोक्तविप्रतिपत्तिव्यक्तेस्तद्व्यक्तित्वेनैव निवेश इति भावः । ननु, उक्ताबाध्यत्वादिरूपस्य विप्रतिपत्तिपरिचायकघटकतया प्रथमोपस्थितत्वात्तदेव पक्षतावच्छेदकं युक्तम् । तत्राह-~-यद्वेति । अवछेदकमेवेति । भट्टभास्करमते शुक्तिरूप्यादेस्सत्यस्य शुक्त्यादावुत्पत्तिखीकारात्तदनुयायिना केनचित् यदि तस्य मिध्यात्वमुच्यते । तदा तेन सह विप्रतिपत्तौ तस्यामबाध्यत्वान्तमेव पक्षविशेषणम् । तथा च न तं प्रति सिद्धसाधनम् । तादृशस्य कस्यचिदभावेऽपि दृष्टान्तसिद्धये शुक्तिरूप्यादौ मिथ्यात्वस्य प्रकृतानुमानात् पूर्व प्रसाध्यत्वात् तत्र सिद्धसाधनवारणाय तद्विशेषणं देयमेव । यदा त्ववच्छेदकावच्छेदनानुमितिमुद्दिश्य विप्रतिपत्तिस्तार्किकादिना सह । तदेतरविशेषणे एव देये । तत्राप्यलीकवादिनं प्रत्येवान्तिविशेषणं देयम् । एकदा तु न द्वाभ्यां सह विप्रतिपत्तिस्तथैव कथकानां सम्प्रदायात् । तथा च यदेव यं प्रति विप्रतिपत्तौ पक्षविशेषणं तदेव तं प्रति न्यायप्रयोग इति भावः । ननु, सत्त्वेन प्रतीतियोग्यत्वं सदूपचित्तादात्म्यं घटादौ व्यावहारिकम् । घटादितुल्यकक्ष्यत्वात्। शशविषाणादावलीके तु प्रातीतिकं सम्भवति। अनध्यस्तेऽप्यलीके सत्तादात्म्यस्यारोपसम्भवात् । यदि पुनः पक्षतावच्छेदकावच्छेदेने त्यादिमूलानुरोधाताशुक्तिरूप्यादिप्रातीतिकसाधारणस्य सत्तादात्म्यस्य निवेश्यत्वादिति चेन्न। तत्रैव हि सत्तादात्म्याध्यास यस्य तत्समानकालमध्यासः । शुक्तिरूप्यादिरूपेण परिणममानाविद्याया एव तन्निष्ठेन सत्तादात्म्यरूपेण परिणममानत्वात् । तथा चालीकरूपेणाविद्यायाः अपरिणममानत्वात् । नालीकनिष्ठतादात्म्यरूपेण परिणामः । न च स्फटिकादिरूपेणापरिणममानाया अप्यविद्यायाः स्फटिकादिनिष्ठेन जपाकुसुमादिलौहित्यतादात्म्यादिरूपेण परिणामदर्शनात् अलीकरूपेणापरिणताप्यविद्या तन्निष्ठेन सत्तादात्म्यरूपेण परिणमतामिति वाच्यम् । तादात्म्यमात्ररूपेण परिणामस्य तथा दृष्टत्वेऽपि सत्तादात्म्यरूपेण परिणामस्य तदनुयोगिरूपेण परिणममानाविद्यानिष्ठत्वनियमाविघातात् । न च सत्प्रतियोगिकतादात्म्यस्योक्तनियमस्वीकारेऽ पि सदनुयोगिकस्यालीकप्रतियोगिकतादात्म्यस्याविद्यापरिणामत्वमास्तामिति वाच्यम् । सदलीकमिति प्रतीत्यमावेनाविद्यायास्तादृशपरिणामे हेतुत्वाकल्पनात् । अत एव 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्प'इति पातञ्जलसूत्रे शब्दमात्रजन्यस्यालीकाकारधीरूपविकल्पस्य सद्रूपाविषयकत्वरूपं वस्तुशन्यत्वमुक्तम् । अत एव प्रमाणविपर्ययविकल्पनिद्रास्मृतय' इति वृत्तिविभाजके पातञ्जलसूत्रे विकल्पात् पृथग्विपर्ययस्योक्तिः । तस्य सद्रूपविषयकत्वेन वस्तुशून्यत्वाभावात् । किं च सत्प्रतियोगिकतादात्म्य
For Private and Personal Use Only