________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमपरिच्छेदः]
लघुचन्द्रिका ।
येति । नन्वसिद्धिवारणायेत्यपि वक्तुमुचितम् । बाधो हि हेत्वाभासः । विप्रतिपत्तिप्रयुक्तन्यायप्रयोगाधीनानुमितावेव विरोधी सन् दूषणं न तु विप्रतिपत्तिजन्यसंशयविरोधी सन् । वाद्यादीनां निश्चयवत्त्वे संशयानुत्पादस्योक्तत्वात् । तदा हि सं. शयस्याकर्तव्यन्वेन अयव्यवस्थामात्रसिद्धये विप्रतिपत्तेरिवानुमितिसामग्रीमात्रस्य हेत्वामासादिदोषशन्यस्य प्रतिवादिनिष्ठस्य वादिना कर्तव्यतया संशयाविरोधित्वेन बाधस्योद्भावनं व्यर्थम् । अनुमितितत्करणपरामर्शान्यतरविरोधित्वरूपेण हेत्वाभासत्वेन बाधस्योद्भावने च हेत्वसिद्धरपि तदुचितमिति चेन्न । विप्रतिपत्तिकाले हतोरप्रयुक्तत्वेन हेतुमत्ताज्ञानविरोधिन्या असिद्धेः ज्ञातुमशक्यत्वेन तस्य विप्रतिपत्तिदोषत्वाव्यवहारात् । न च पक्षतावच्छेदकावच्छेदेन विप्रतिपत्तौ साध्यस्य विवक्षितत्वाद्धेतोः पक्षतावच्छेदकावच्छेदेन प्रयोक्तव्यतामनुमाय असिच्यादर्दोषत्वं सम्भाव्यमिति वाच्यम् । अनुमानाकौशलेन सभाक्षोभादिना वा अन्यथापि हेतोः प्रयोगसम्भवात् । वस्तुतस्तु, बाधपदमसिद्धेरप्युपलक्षकम् । विप्रतिपत्तियोग्यन्यायवाक्योक्तहेतोर्दोषस्यापि विप्रतिपत्तिदोषत्वसम्भवात् । अत एवाग्रे सन्दिग्धानकान्तिके विप्रतिपत्तिदोषत्वमाशङ्कितम् । अत एवोक्तमिति । प्राचीनतार्किकैरिति शेषः । नवीनतार्किकैस्तु व्याप्तिग्राहकतर्काभावे सति साध्यामाववत्त्वेन सन्दिग्धे धमिणि हेतुनिश्चयोऽपि व्यभिचारसंशयहेतुतया दोष एव । अत एव 'वतिरद्विष्ठातीन्द्रियधर्मसमवायी दाहजनकत्वादात्मव'दित्यादि शक्त्यादिसाधकानुमानेषु मणावप्रयोजकत्वमुक्तम् । तत्र व्यभिचारसंशयस्यादूषणत्वे व्याप्तिपक्षधर्मतानिश्चयसंभवेनाप्रयोजकत्वोक्तेरसङ्गतेः तस्य दूषणत्वमावश्यकमिति दीधितावुक्तं यद्यपि । तथापि प्रकृते मिथ्यात्वानुमाने तर्काणां वक्ष्यमाणत्वेन न दोषः । विमतं विप्रतिपत्तिविशेष्यम् । नावयवेष्विति । 'तत्र पञ्चतयं केचित् द्वयमन्ये वयं त्रय' मिति मीमांसकोक्तरोत्या तार्किकमीमांसकबौद्धानां पञ्चत्रिव्यवयववादित्वात्तान् प्रति यथामतमवयवाः प्रयोक्तव्याः । 'उदाहरणपर्यन्तं यद्वोदाहरणादिक' मिति मीमांसकाः । उदाहरणोपनयरूपावयववादिनो बौद्धा इति भावः । ननु, विप्रतिपत्तिमात्रस्य निवेशे सिद्धसाधनबाधादिकम् । घटादिमात्रविशेष्यकविप्रतिपत्तिनिवेशे प्रपञ्चमात्रस्य मिथ्यात्वासिद्धिस्तत्राह-स्वनियामकनियतयेति । स्वस्याः विप्नतिपत्तेः नियामकं प्रकृतानुमानपक्षतावच्छेदकत्वयोग्यतासम्पादकं यत् ब्रह्मज्ञानान्याबाध्यत्वादिविशिष्टविशेष्यकत्वं पूर्वोक्तम् । तेन नियतया विशेषितया पूर्वोक्तयेति यावत् । ननु, पूर्वोक्तविप्रतिपत्तेर्ब्रह्मज्ञानान्याबाध्यत्वादिघटितरूपेण पक्षतावच्छेदके निवेशे लाघवादुक्ताबाध्यत्वादिरूपस्यैव पक्षतावच्छेकत्वमुचितम् । तत्राह-लघूम
For Private and Personal Use Only