________________
Shri Mahavir Jain Aradhana Kendra
८
www.kobatirth.org
अद्वतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
1
या व्यधिकरणावच्छेदकर जतत्ववत्त्वं शुक्तिरूप्यादावपि प्रसिद्ध्या तदेव साध्यं कुतो न कृतमिति चेन्न । तथा सति व्यावहारिकरजतादिरूपे पक्षे तत्प्रसिच्या सिद्धसाधनापत्तेः । समानाधिकरणावच्छेदकरजतत्वस्यैव साच्यीकार्यत्वे प्रसिद्ध्यावश्यकत्वात् । सामान्यानुमाने तु शुक्तिरूप्यादिकं मूलोकं दृष्टान्तः । स्वत्वस्यानुगतस्य प्राचां मते स्वीकारेण स्वविशिष्टसम्बन्धितया ज्ञायमाने सर्वत्र विद्यमानात्यन्ताभावस्य प्रातीतिकरजतत्वतादात्म्यावच्छिन्नप्रतियोगित्वस्य प्रातीतिकरजतादौ सत्त्वात् । नचैवं सर्वदेशकालवृत्तिव्याप्यवृत्यत्यन्ताभावप्रतियोगित्वं पर्यवसितम् । तथाचालीकत्वापत्तिः प्रपञ्चस्येति वाच्यम् । कालसंबन्धित्वसमानाधिकरणस्य तस्य निवेश्यत्वात् । ननु, कालसंबन्धित्वमास्तां प्रपञ्चे । विशेष्यभूतमुक्त प्रतियोगित्वं तु न तत्रास्ति । येन हि रूपेण संबन्धेन च यत्र यत् संबध्यते । न च तेन रूपेण तत्संबन्धेन च तत्र तदभावे विरोधादिति मन्वानं वादिनं प्रति तुप्यतु दुर्जन इति न्यायेन तन्मतमनुसृत्य साध्यान्तरमाह - पारमार्थिकेत्यादि । पारमार्थिकत्वावच्छिन्नं यदुक्तप्रतियोगित्वं तद्वन्न वेत्यर्थः । तत्रोक्त प्रतियोगित्वे । तदूपावच्छि न्नमिति पूर्वोक्तस्य विशेषणस्य स्थाने तद्रूपसमानाधिकरणमिति विशेषणं देयम् । न च तत्र प्रयोजनाभाव इति वाच्यम् । घटादेः पारमार्थिकत्वेऽपि पारमार्थिकत्वेन शुक्तिरूप्यादेः योऽत्यन्ताभावस्तत्प्रतियोगित्वस्य घटादौ सिद्धिमादाय यदर्थान्तरम् । तद्वारणादेः प्रयोजनस्य सत्वात् । कपालादौ संयोगादिसंबन्धेन घटादेर्यो ऽत्यन्ताभावस्तत्प्रतियोगित्वस्य घदादौ सिद्धिमादाय घटादेः पारमार्थिकस्वीकारे starन्तरं स्यादतस्तत्संबन्धावच्छिन्नेत्यपि प्रतियोगित्वे विशेषणं देयम् । न च पारमार्थिकत्वस्य घटादौ स्वीकारे तेन रूपेण कथं कपालादौ संयोगेनापि घटादेरभावसिद्धिः । व्यधिकरणधर्मावच्छिन्नाभाववादिनापि विशेषरूपेण सामान्याभावस्वीकारेऽपि सामान्यरूपेण विशेषस्याभाव स्वीकारादिति वाच्यम् । प्रकृतानुमानबलेनैव तादृशाभावसिद्ध्या पत्योक्तस्यार्थान्तरस्यापत्तेः । मत इति । ययक्तौ साध्यं सिद्धं तत्र नानुमितिर्भवति । व्यक्त्यन्तरे तु भवत्येव । समान विशेष्यत्वसंबन्धेन बाधविशिष्टबुद्ध्योरिव सिद्ध्यनुमित्योः प्रतिबध्यमतिबन्धकत्वौचित्यादिति प्राचां मतम् । नव्यमते तु यद्धर्मविशिष्टे क्वचित्साच्यं सिद्धं तद्धर्मविशिष्टे व्यक्त्यन्तरेऽपि नानुमितिरिति भावः । पक्षविशेषणं पक्षतावच्छेदकता पर्याप्त्यधिकरणं तावन्मात्रं पक्षतावच्छेदकमिति यावत् । ब्रह्मज्ञानान्याबाध्यत्वसामानाधिकरण्ये नानुमितिं प्रति तत्सामानाधिकरण्येन ब्रह्मतुच्छयोः साध्याभावज्ञानस्याविरोधित्वेनान्यविशेषणद्वयस्य पक्षतावच्छेदकप्रवेशे प्रयोजनाभावादिति भावः । वाधवारणा
For Private and Personal Use Only