________________
Shri Mahavir Jain Aradhana Kendra
११०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
सन्दिह्यमानं यत् उक्तं प्रतियोगित्वं तद्यापकत्वानिश्रयादित्यर्थः । तथा चैतदारउधत्वाभावव्यापकस्योपाधेर्व्यभिचारित्वेन हेतुना एतदारब्धत्वाभावव्यभिचारित्वमेतन्निष्ठात्यन्ताभावप्रतियोगित्वे अनुमेयम् । अत एतदनारब्धत्वे तादृशप्रतियोगित्वव्यापकतानिश्वयो न सम्भवतीति भावः । न चोक्तोपाध्यभाववति तादृशप्रतियोगित्वस्य संशयात्तादृशप्रतियोगित्वे उक्तव्यभिचारित्वरूप हेतोरनिश्चय इति वाच्यम् । एतत्तन्तुपदस्य तत्पटोपादानपरतया तत्पटोपादानीभूतं यत्तन्त्वव-च्छिन्नचैतन्यं तन्निष्ठप्रागभावाप्रतियोगित्वरूपोपाध्यभाववति तादृशचैतन्यारोपितसर्पादौ स्वोपादानवृत्तिस्वावच्छेदकावच्छिन्नात्यन्ताभावप्रतियोगित्वनिश्चयस्य परेणापि वाच्यतयोक्तव्यभिचारित्वरूपहेतोर्निश्चयानपायात् । तादृशव्यभिचारित्वस्यानिश्वयेऽपि तत्संशयाहितेनैतदारब्धत्वाभावव्यभिचारित्वसंशयेनोक्तव्यापकतानिश्चयप्रतिबन्धसम्भवाच्च । उक्तत्वादिति । उपाध्यभावे साध्याभावस्य व्य तिरेकव्याप्तेरेव वाच्यतया तत्रैतन्निष्ठप्रागभावाप्रतियोगित्वस्योपाधेरुक्तत्वादित्यर्थः । तत्र व्यभिचारादिति । दशावच्छिन्नसंयोगादौ तत्पटावच्छेदकावच्छिन्नात्यन्ताभावप्रतियोगित्वरूपस्य साध्याभावस्य तत्तन्त्वारब्धत्वरूपस्य हेतोश्च सत्त्वाव्यभिचार इति भावः । अत्यन्ताभावे तत्पटावच्छेदकावच्छिन्नवृत्तिकत्वं विशेषणं देयमित्यभिप्रेत्येदम् । यदि तु उक्तरीत्या तत्पटानवच्छेदकानवच्छिन्नत्वं विशेषणं दीयते, तदा तत्पटावच्छेदकावच्छिन्ने संयोगध्वंसादौ व्यभिचारो बोध्यः । ध्वंसस्यापि परिणामवादे सूक्ष्मावस्थारूपपरिणामत्वेन तत्तन्त्वारब्धत्वात् । न च स्वावच्छेदकावच्छिन्नसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्यैव साध्यतया संयोगादौ तादृशप्रतियोगित्वस्थापनकाले व्युत्पत्तिस्वाभाव्येन तस्यैव स्वपदेन धायतया नो व्यभिचार इति वाच्यम् । प्रकृतानुमानस्य नव्यमत एव स्वीकारात् । तत्र स्वत्वस्याननुगतत्वेन तत्पटावच्छेदकत्वेनैव साध्ये निवेशात् साध्योपाध्योः तत्तन्तुपदस्य तत्पटोपादानपरतया तत्तन्त्ववच्छिन्नचिदुपादानकसर्पादौ स्वावच्छेदकावच्छिन्नवृत्तिकात्यन्ताभावप्रतियोगित्वस्य तदुपादानकत्वरूपंतदारब्धत्वस्य च सत्त्वाच्च । अत एव स्वानवच्छेदका नवच्छिन्नवृत्तिकत्वनिवेशेऽपि तत्र व्यभिचारः । तस्य परेणापि मिथ्यात्वस्वीकारेण तदत्यन्ताभावस्यावच्छिन्नवृत्तिकत्वाभावात् । तत्संयोगजन्यत्वरूपं तदारब्धत्वं तु पक्षेऽपि मन्मते नास्त्येवेति भावः । चिदाभासेत्यादि । चिदाभासं स्वावच्छिन्नचितं विनानुपलभ्यमानत्वम् । तादृशचितंमनपेक्ष्यैव यत् प्रकाशते तदन्यत्वम् । स्वप्रकाशान्यत्वमिति यावत् । ननु विमतं मिथ्या । धीकाल एवान्यथा प्रतीतत्वात् । चित्रनि
For Private and Personal Use Only