________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे अंशित्वनिरुक्तिः ]
लघुचन्द्रिका ।
म्नोन्नतादिवत् । भारूपवस्तुसंलग्नत्वात् सवितृच्छिद्रादिवत् । न चासिद्धिः । धीकाल एव 'इदं सर्वं यदयमात्मेत्यादिश्रुत्या सर्वानात्मन आत्मत्वेन प्रमितत्वात् । 'घटादि स्फुरती'ति भारूपसंलग्नत्वा'च्चेति कौमुदीकाराः । तत्रान्यथेत्यस्य आत्मत्वेनेत्यर्थकत्वे सद्रूपात्मत्वेन प्रतीतत्वस्यामिथ्यात्वव्याप्यत्वेन विरुद्धो हेतुः । प्रतिपन्नोपाधिनिष्ठात्यन्ताभावप्रतियोगित्वेनेत्यर्थकत्वे त्वसिद्धिः व्यर्थविशेषणता च । द्वितीयहेतुः सवित्रात्मनोर्व्यभिचारी । 'सविता प्रकाशते' 'आत्मा स्फुरती' ति तयोर्भासंलग्नत्वात्तत्राह- एवमिति । अन्यथाप्रमितत्वादित्यस्य प्रपञ्चविलक्षणरूपेण यत् प्रमितं तत्तादात्म्यादित्यर्थः । तच्च कल्पितं ब्रह्मण्यपीति धीकाल इत्युक्तम् । स्वधीकाल इत्यर्थः । ब्रह्मधीकाले च ब्रह्मणि तन्नास्ति । तस्याः स्वेतरकल्पितनाशकत्वात् । स्वधीसमुत्पत्तिद्वितीयक्षणो वा स्वधीकालपदार्थः । तथा च ब्रह्मधीसमुत्पत्तिद्वितीयक्षणाप्रसिद्धेर्न ब्रह्मणि तदस्ति । ब्रह्मावृत्तिचित्तादात्म्यं पर्यवसितम् । भारूपे संलग्नत्वं स्वप्रकाशस्वरूपावृतिधर्मवत्त्वम् । सवितरि तु न व्यभि
चारः । तस्यापि पक्षत्वात् । ननु यत्रतत्तन्तुनिष्ठेत्यादिकं यदुक्तं, तदयुक्तम् । तथा सति व्यतिरेकिमात्रोच्छेदापत्तेः । 'पृथिवीतरेभ्यो भिद्यते, पृथिवीत्वा'दित्यादावपि 'यत् पृथिवीतरत् , तत्र दृथिवीत्वाभाव' इत्यादिव्याप्तिग्रहे पाकजरूपाभावस्य पृथिवीत्वाभावव्यापकस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानष्टथिवीतरव्यापकत्वाभावादिति चेन्न । साध्यासमानाधिकरणधर्मवत् यत् साधनवत्' तन्निष्ठाभावप्रतियोगितावच्छेदकः साध्यसमानाधिकरणवृत्तिर्योधर्मस्तद्वत्त्वरूपस्य दीधितिकाराद्युक्तस्योपाधिलक्षणस्य पाकजरूपाभावे विरहात् । पृथिवीतरतादात्म्येन निश्चिते जलादौ पृथिवीत्वाभावरूपसाध्यासमानाधिकरणधर्मस्याभावात् । पाकजरूपाभावरूपोपाधिव्यभिचारित्वस्य पृथिवीतररूपसाधने निश्चयाभावेन तेन हेतुना तत्र एथिवीत्वाभावरूपसाध्यव्यभिचारित्वानुमानासम्भवात् । सत्प्रतिपक्षोन्नायकतया दूषकत्वस्य तत्रासम्भवाच्च । न च तथापि सन्दिग्धोपाधित्वेन दूषकत्वं तत्रापि स्यादिति वाच्यम् । साध्योपाध्योाप्तिग्राहकतर्कसत्त्वात् । उक्तं हि मणौ –'यत्र साध्यहेत्वोस्साध्योपाध्योश्च व्याप्तिग्राहकसाम्यात् नैकत्रापि व्याप्तिनिश्चयस्तत्रैव सन्दिग्धोपाधित्व'मिति । उक्तोपाधौ तु उक्तलक्षणमस्त्येव । उक्तप्रतियोगित्वरूपसाधनवत्त्वेनोभयवादिनिश्चिते तत्तन्त्ववच्छिन्नचिदुपादानकसर्पादौ तत्पटोपादानोपादानकत्वाभावरूपसाध्यासमानाधिकरणधर्मनिश्चयात् । नचैवमुक्तसादावुभयो,दिनोः निरुक्तसाधननिश्चयसम्भवेन साधनाव्यापकत्वसौलभ्यात् पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानेत्याद्युक्तिर्मूले १. 'साध्यहेत्वोः' इति पाठान्तरम् ।
For Private and Personal Use Only