________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे अंशित्वनिरुक्तिः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१०९
1
1
1
ति । उपलक्षणमेतत् । केवलव्यापकमपि न भवति । तत्त्वग्राहकतकीभावात् । ननु, प्रागभावप्रतियोगित्वमपि न व्यापकम् । तत्तन्तुसमवेतद्रव्यत्वादौ तदभावात्तत्राह - एतत्समवेतत्वमिति । एतत्तन्तुनिष्ठेत्यादि । उक्तसाध्याभाववान् । तत्पटोपादानोपादानकत्वादित्यर्थः । यथाश्रुते तत्पटस्याव्याप्यवृत्तित्वेन बाधः । तत्संयोगजन्यत्वरूपस्य तदारब्वत्वस्य परिणामवादादिष्वसिद्धिश्च । प्रतियोगित्वं प्रतियोगितात्वम् । प्रतियोगि प्रतियोगितावच्छेदकम्। उद्देश्यतावच्छेद के विधेयावच्छेदकत्वस्य व्युत्पत्तिलम्यत्वाद्वोक्तार्थलांभः । किञ्चिन्निष्ठेत्याद्यनुमानं न सम्भवदुक्तिकम् । संसर्गाभावप्रतियोगित्वस्यैव तादात्म्येन हेतुत्वसम्भवेन व्याप्यत्वांशवैयर्थ्यात् । किं च व्याप्यत्वं यदि केनचिद्रूपेणोच्यते, तदा आकाशाभावस्यापि घटादिवृत्तित्वविशिष्टरूपेण तदस्त्येवेति व्यभिचारः । न च व्याप्यतावच्छेदको क्तरूपेण साध्यस्यापि तत्र सत्त्वान्न व्यभिचार इति वाच्यम् । तथा सति न चाकाशात्यन्ताभावस्ये 'त्यादिशङ्काग्रन्थस्य निरालम्बनत्वेन भ्रान्तशङ्कापरत्वापत्तेः । न च संसर्गाभावप्रतियोगित्व व्याप्यत्वं येन केनचिद्रूपेण । अत्यन्ताभावप्रतियोगित्वं तूभयावृत्तिधर्मेणेत्यभिप्रेत्याशङ्का । उत्तरं तु उभयावृत्तिधर्मेणैव व्याप्यत्वमपि निवेश्यमित्यभिप्रायणेति नोक्तदोष इति वाच्यम् । तथा सति एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वरूपपक्षे उभयावृत्तिना तत्प्रतियोगिताव्यक्तित्वेनात्यन्ताभावे सिद्धेऽप्यस्मदीयसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभावानुमानासिच्या सत्प्रतिपक्षासिद्धेः । अथोक्तमूलवाक्यमुपेक्ष्य येन रूपेण व्याप्यत्वं, तेनैवात्यन्ताभावप्रतियोगित्वमप्युच्येत ! तथापि तद्व्यक्तित्वेनात्यन्ताभावसिद्ध्या न सत्प्रतिपक्षसिद्धिः । अथ येन येन व्याप्यत्वं तेन तेनोक्तप्रतियोगित्वमित्युच्यते । तथापि येन येनेति वीप्सालब्धयावद्रूपमध्येऽत्यन्ताभावप्रतियोगितात्वसंसर्गाभावप्रतियोगितात्वयोरपि पतितत्वेन ताभ्यामेव तदुक्तिर्युक्ता । अत्यन्ताभावप्रतियोगितात्वेन तदुक्तौ साधनवैकल्यम् । संसर्गाभावप्रतियोगितात्वेन तदुक्तौ स्वव्यापकसाध्यसमानाधिकरणवृत्तिहेतुतावच्छेदकरूपव्याप्तिरूपे साधने संसर्गाभावप्रतियोगितात्वस्य प्रविष्टत्वेन तस्यैव हेतुतावच्छेदकत्वसम्भवेनेतरांशवैयर्थ्यम्, अत्यन्ताभावप्रतियोगितात्वस्योक्तव्याप्तौ प्रविष्टत्वेन तस्यैव हेतुतावच्छेदकत्वसम्भवेनेतरांशवैयर्थ्यं च । न चास्तु तथैवेति वाच्यम् । अप्रयोजकत्वात् । तथापि तदभ्युपेत्य दूषणान्तरमाह – यत्रैतदिति । प्रागभावास्वीकारपक्षे एतदुपादानकान्यत्वमेवोपाधिः । तादृशप्रतियोगित्वेन सन्दिह्यमाने पक्षे यद्युपाधिनिश्चयः स्यात्, तदा तादृशप्रतियोगित्वरूपसाधनव्यापकत्वमुपाधौ निश्चीयेत । स तु नास्तीत्याशयेन पक्षावृत्तेरित्युक्तम् । पक्षावृत्तित्वेन निश्चितस्येत्यर्थः । सन्दिह्यमानेत्यादि ।