________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
न्धावच्छिन्नप्रतियोगिताकाभावत्वस्यैव तल्लक्षणत्वात् । तच्चानिष्टम् । ऐक्यस्य सम्बन्धत्वे 'घटः कलश' इत्यादिप्रत्ययापत्तेरिति वाच्यम् । भेदप्रतियोगितायास्सम्बन्धानवच्छिन्नत्वस्वीकारेण सम्बन्धानवच्छिन्नकिञ्चिद्धावच्छिन्नप्रतियोगिताकाभावत्वस्यैवभेदलक्षणत्वात् । ध्वंसप्रागभावयोहि प्रतियोगिता सम्बन्धेनेव धर्मेणाऽपि नावच्छिद्यते । न च तथाऽपि प्रतियोग्याश्रयत्वेनैवात्यन्ताभावस्य विरोधात् तन्तौ पटात्यन्ताभावः परिणामवादिनां सिद्ध इति · वाच्यम् । प्रतियोगितावच्छेदको यः प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिताकः सम्बन्धः तदनुयोगित्वेनैव सममत्यन्तामावस्य विरोधात् । अत एव धनानधिकरणे धनस्वामिनि पुरुषे अयं स्वामित्वसम्बन्धेन धनाभाववानिति धीन प्रमा । मण्यादिवृत्तितृणादौ च न दाहाद्युत्पत्तिः । तत्र संयोगेन मण्याद्यभावस्यासत्त्वात् । 'बदरे कुण्डं ने त्यादिधीस्तु वृत्तिनियामकसंयोगेन कुण्डादेरभावं गाहते । अत एव च पृथिवीत्वादिकं प्रति संयोगेन गगनादेापकत्वं गगनाद्यभाववतोऽपि पृथिव्यादेः संयोगेन गगनादिसम्बन्धित्वेन प्रतियोगिव्यधिकरणगगनाद्यभावविरहादित्यर्थके दीधितिवाक्ये उत्पत्तिकालावच्छेदेन पृथिव्यादौ संयोगेन समवायेन वा गगनादेरभावो विद्यमानोऽपि स न प्रतियोगिव्यधिकरण इत्यर्थ इति व्याचक्षते । बाधात् अनाश्रितत्वबाधात् । कारणानाश्रितत्वस्वीकारेऽपि पटादेर्भूतलाद्याश्रितत्वादिति शेषः । तन्मात्राश्रितत्वेन स्वोपादानान्यस्मिन् स्वोपादानजन्यतावच्छेदकसम्बन्धेनासम्बन्धित्वेन । प्रामाणिकत्वेति । तात्विकत्वेत्यर्थः । प्रागेवेति । तात्विको व्यावहारिको वेत्यादिनेति शेषः । ननु, 'तन्तुषु दशायां न पट' इति प्रत्ययात् पटस्य तादात्म्यादिसम्बन्धेन तन्ताकव्याप्यवृत्तित्वम् । तत्राह-संयोगेति । अनभ्युपगमादिति । तथा च 'अग्रे वृक्षे संयोगो न तु मूले' इति धीः वृक्षनिष्ठाग्रमूलवृत्तिसंयोगतदभावाववगाहते । न तु वृक्षनिष्ठौ ताविति न कस्याप्यव्याप्यवृत्तित्वमिति भावः । नन्वेवं मलादावपि न संयोगादिसत्वं स्यात् । 'भूतले उपरिभागे संयोगो न त्वन्यभागे' 'उपरिमागे तदिशि संयोगो न त्वन्यदिशि' इत्यादिप्रत्ययात् । तस्मान्मूलादेरवच्छेदकत्वावगाहनात् वृक्षादेरधिकरणत्वावगाहनात्संयोगादेर्मूलाधवच्छिन्नवृक्षादिनिष्ठाधिकरणता नापलप्या । तत्राह-अभ्युपगमे चेति । एतत्तन्तुत्वावच्छिन्नवृत्तित्वमेतत्पटानवच्छेदकावच्छिनवृत्तिकान्यत्वम् । तेन मिथ्यात्वघटकात्यन्ताभावस्यावच्छिन्नवृत्तिकत्वास्वीकारेऽपि न क्षतिः । अनवच्छेदकेत्यत्र देशकालसाधारणमवच्छेदकत्वं निवेश्यमित्याशयेनाहएवमिति । प्रयोजकं समव्यापकम् । न तु व्याप्यमात्रं व्यापकमात्रं वा । आये तदुक्तर्व्यर्थत्वात् । द्वितीये केवलान्वयिनि वक्ष्यमाणापत्त्यसम्भवात् । केवलान्वयी
For Private and Personal Use Only