SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र० दे अंशित्वनिरुक्तिः] लघुचन्द्रिका । त्तात्विकप्रमात्वमेवाज्ञातविषयघटितं ब्रह्माकारवृत्ताविति वक्तुं शक्यत्वात् । परंतु ब्रह्मणश्चाक्षुषादिविषयत्वे न काप्यनुपपत्तिरित्याशयेन नानुपपत्तिरिति पूर्वमुक्तम् । ब्रह्मणः परिमाणादिमत्वे च न मानम् । उक्तं च पदार्थखण्डने शिरोमणिना--- 'ईश्वरस्य परिमाणवत्त्वे मानाभावः । द्रव्यत्वस्य त्रुटित्वादेरिव परिमाणासाधकत्वात्' । तदीयटीकायां च सार्वभौमैरुक्तम्-‘एवमीशस्य जीवस्य च द्रव्यत्वे संयोगादौ च मानाभावः । आत्ममनस्संयोगादेः 'ज्ञानादिहेतुत्वेऽपि न मान' मित्यादि । कल्पितत्वम् उक्तसाध्ययोः प्रविष्टः कल्पितशब्दार्थः ।। ॥ इति लघुचन्द्रिकायां परिच्छिन्नत्वहेतूपपत्तिः ॥ अंशित्वात् कार्यत्वात् । ननु, पटे तन्त्ववच्छिन्नचिदेवोपादानम् । न तु तन्तुरिति मते सिद्धसाधनम् । तादात्म्यसम्बन्धेन तन्तौ पटस्यात्यन्ताभावसत्त्वात् । किंच पटान्तरे तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वानुमानसाधारण्या एकोक्तेरलाभश्च । तत्राहं -तत्रेति। एतत्पदं तु पक्षीभूतव्यक्तिपरमित्याशयेन तत्स्थाने स्वपदमाह-स्वेति। सिद्धसाधनमिति । यथा तत्पटे तस्यात्यन्ताभावः स्वीक्रियते । तदधिकरणत्वस्यैव' तदत्यन्ताभावविरुद्धत्वेन तत्तादात्म्यस्य तदत्यन्ताभावाविरुद्धत्वात् । तथा तदभिन्नतन्तावपीति भावः । अनाश्रितत्वेनेति । तत्पटस्येत्यादिः । अन्येति । तत्तन्तुभिन्नेत्यर्थः । उपपत्त्या स्वात्यन्ताभावसामानाधिकरण्योपपत्त्या । यैस्तन्तुपटयोस्तादात्म्यमुच्यते, तेषां परिणामवादिनां सिद्धसाधनम् । यस्त्वाधाराधेयभावस्तेषामारम्भवादिनामर्थान्तरम् । एतदनुमानबलादनाश्रितत्वादिसिद्धिः । अन्यथा तत्पटाश्रयत्वतत्पटाभावयोस्तत्तन्तौ विरोधात् । न हि तावता मिथ्यात्वरूपोद्देश्यसिद्धिः । तदनधिकरणे तदत्यन्ताभावस्य सर्वसम्मतत्वादिति भावः । अभेदे अत्यन्ताभेदे । कथञ्चित् स्वकीयर्मिप्रतियोगिनोर्यस्तादात्म्यरूपः सम्बन्धः तत्समसत्ताकस्य । भेदस्यति । परिणागवादिभिरिति शेषः । तथा चासम्बद्धयोः कार्यकारणत्वासम्भवेन तन्तुपटयोस्तादात्म्यसम्बन्धोऽवश्यं वाच्यः । स च भिन्नयोरेवेति भेदोऽप्यावश्यकः । एवं च ययोर्यसम्बन्धस्तयोरेकत्र परस्य तेन सम्बन्धेनात्यन्ताभावस्यासम्भवात्तादात्म्यसम्बन्धेन तन्तुपटयोन परस्परात्यन्ताभाववत्त्वं परिणामवादिभिर्वक्तुं शक्यम् । ततश्च तन्तुनिष्ठस्यासन्ताभावस्य तादात्म्यसम्बन्धावच्छिन्नप्रतियोगित्वं तत्पटे न तेषां सिद्धम् । न चात्यन्ताभावप्रतियोगितायास्तादात्म्यसम्बन्धावच्छिनत्वस्यासम्भवः । सम्भवे वा भेदप्रतियोगिताया ऐक्यसम्बन्धावच्छिन्नत्वमेव वाच्यम्। तादात्म्यवतोरपि भेदसत्त्वेन तत्प्रतियोगितायास्तादात्म्यसम्बन्धावच्छिन्नत्वासम्भवातु। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वस्य भेदलक्षणत्वासम्भवेनैक्यसम्ब For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy