________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
अद्वैतमञ्जरी ।
तथा च विशिष्टविषयतावच्छेदकत्वविशिष्टविषयताग्राहकोऽनुभवो विशेष्यतात्वादेहिकः । विषयता हि यया विषयतया विशिष्टायां यस्यां विषयतायामवच्छेदिका, सा विशेषणीभूता प्रकारता । विशेष्यभूता सांसर्गिक विषयता । तदवच्छेदकविषयता तु विशेष्यता । तथा च विषयतानिष्ठं विषयतावच्छेदक त्वं विशेष्यतात्वम् । तादृशावच्छेदकत्वं यां विषयतां प्रति तत्त्वं तादृशाव च्छेदकतानिरूपकविषयतात्वरूपं सांसर्गिकविषयतात्वम् । विषयतानिष्ठायां ता दृशावच्छेदकत्वनिरूपकतायामवच्छेदकविषयतात्वं प्रकारतात्वम् । न च तादात्म्यादिविषयतानिष्ठायामुक्तनिरूपकतायां रजतादिनिष्ठा विषयता यथावच्छेदिका तथा तादात्म्यत्वादिविषयतापीति तस्याऽपि निरुक्तप्रकारतात्वं स्यादिति वाच्यम् । तादृशनिरूपकतायास्समानाधिकरणं सत् यदवच्छेदकत्वं, तस्यैव प्रकारतात्वरूपत्वात् तादात्म्यत्वादिनिष्ठविषयतायां तदभावात् । रजततादात्म्येनेदं जानामीत्य नुभवो हि रजतविषयताविशिष्टस्य तादात्म्यविषयत्वस्योक्तनिरूपकतां गृह्णत् रजतविषयताया अपि तां गृह्णाति । न तु तदवच्छेदकत्वमात्रम् । न हि रजतादिविषयत्वस्येदंविषयतावच्छिन्नत्वे कस्यापि विप्रतिपत्तिः । तस्य तादात्म्यादिसांसर्गिकविषयत्वाग्राहकेणापि 'इदं रजतं जानामि' 'इदं रजतत्वेन जाना मी' त्याद्यनुभवेन ग्रहणात् । तादात्म्यत्वविषयत्वस्य तूक्तनिरूपकत्वाननुभवेन तदवच्छेदकत्वमात्रं गृह्णाति । न चैवमपि सांसर्गिकविषयतात्वस्य उक्तनिरूपकतामात्ररूपत्वे रजतादिविषयतायामपि तत्स्यादिति वाच्यम् । उक्तनिरूपकतानवच्छेदकविषयतानिष्ठस्यैवोक्तनिरूपकत्वस्य सांसर्गिकविषयतात्वरूपत्वात् तादृशनिरूपकत्वाश्रयविषयतावच्छिन्नस्यैव तादृशनिरूपकत्वस्य तद्रूपत्वाद्वा । तादात्म्यविषयतानिष्ठैव हि तादृशनिरूपकता तादृशनिरूपकताश्रयेण रजतविषयत्वेनावच्छिन्ना । न रजतविषयतानिष्ठा । तादात्म्यत्वादिविषयता तु उक्तनिरूपकतावच्छेदकत्वान्न सांसर्गिकविषयता । किं तु तदवच्छेदिका । एवमिदंत्वादिविषयतापि तादात्म्यादिविषयतावच्छेदकतायामिदंविषयतानिष्ठायामवच्छेदिका । अतो विशेष्यतावच्छेदिका। अथ तादात्म्यत्वादिविषयतायास्सांसर्गिकविषयतावच्छेदकताशब्देन कथं तान्त्रिकव्यवहार इति चेत् । तादाम्यत्वादेरपि सांसर्गिकविषयतावच्छेदकत्वेन तद्धर्मतयेति गृहाण । एवमिदन्वादिविषयतायामपि विशेष्यतावच्छेदकताशब्देन व्यवहारः । तादात्म्यसम्बन्धेन रजतादि यत्रेदमादौ प्रकारः । तत्र रजतत्वादिकमप्याधारत्वसम्बन्धेन प्रकारः । यत्र तु संयोगादिसम्बन्धेन रजतादिकं प्रकारः । तत्र रजतत्वादेनोक्तसम्बन्धेन प्रकारत्वनियमः । प्रकारतावच्छेदकत्वं तूभयत्र । न चैवं रजतादिविषयतानिष्ठस्येदंविषयता
For Private and Personal Use Only