________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।
२१
निष्ठावच्छेदकतानिरूपकत्तस्य प्रकारतात्वरूपस्य तादृशनिरूपकत्ववत्या रजतत्वादिविषयतयावच्छिन्नत्वेन तादात्म्यसम्बन्धेन रजतादिप्रकारकभ्रमस्थले रजतादिप्रकारता सांसर्गिकविषयता स्यात् । पूर्वोक्तस्य द्वितीयलक्षणस्य तत्र सत्त्वादिति वाच्यम् । रजतादिविषयतानिष्ठस्योक्तनिरूपकत्वस्य तादृशनिरूपकतावत्या रजतत्वादिविषयतयानवच्छिन्नत्वात् । द्वयी हि तादृशस्थले रजतत्वादिप्रकारता। एका प्रातीतिकेनेदमनुयोगिकसंसर्गेण । अन्या व्यावहारिकेण रजतादिनिष्ठसंसर्गेण । आद्या इदंत्वाद्यवच्छिन्नविशेष्यतावच्छिन्ना । अन्त्या रजतादिनिष्ठया अनवच्छिन्नविशेष्यतयावच्छिन्ना । तदवच्छिन्नत्वं च तन्निष्ठावच्छेदकतानिरूपकत्वम् । तथा चान्त्या नेदंविशेष्यतानिष्ठावच्छेदकतानिरूपिका । तदवच्छेदकस्य व्यावहारिकस्य रजतत्वादिसंसर्गस्य इदंविशेष्यतावच्छेदेनानध्यासेनोक्तावच्छेदकतानिरूपकत्वाभावात् । न हि यत्संसर्गानवच्छेदिका विशेष्यता सा सत्संसर्गावच्छिन्नप्रकारतावच्छेदिका। आद्या तु तादृशावच्छेदकता निरूपिका । न तु रजतादिप्रकारतानिष्ठायास्तादृशनिरूपकताया अवच्छोदिका । रजतत्वादिप्रातीतिकसंसर्गोपहितरूपेण रजतादेरुक्तनिरूपकत्वाननुभवात् । न च यत्संसर्गो नोक्तनिरूपकतावच्छेदकः । तत्संसर्गावच्छिन्नप्रकारता उक्तनिरूपकतावच्छेदिका । तस्माद्रजतादिप्रकारतायां न सांसर्गिकविषयतात्वापत्तिः । अत एव तादृशप्रमास्थलेऽपि नोक्तापत्तिः । 'इदं रजत'मित्यादिप्रमायां हि रजतत्वप्रकारता द्वयी। एका इदंत्वावच्छिन्नविशेष्यतयावच्छिन्ना । अन्या रजतनिष्ठयानवच्छिन्नविशेष्यतया अवच्छिन्ना । आद्या इदंत्वावच्छिन्नविशेष्यतानिष्ठावच्छेदकतानिरूपिकापि नोक्तनिरूपकतावच्छेदिका रजतप्रकारतानिष्ठां उक्तनिरूपकतां प्रति तस्याः अव्यापकत्वेनानवच्छेदकत्वात् । न हि रजतत्वविशिष्टवैशिष्टयबुद्धिषु सर्वासु तादृशप्रकारतासत्त्वे मानमस्ति । न च विशेषणतत्त्वावच्छेदकयोरेकर्मिणि एकसम्बन्धावच्छिन्नप्रकारताशालिबुद्वित्वमेव विशिष्टवैशिष्ठयबुद्धित्वम् । तथा चैकसम्बन्धावच्छिन्नप्रकारता एकैव तादृशविशेष्यताद्वयावच्छिन्ना । न तु द्वयी । तथा च तादृशनिरूपकतावच्छेदिकापि सेति वाच्यम् । संयोगादिसंबन्धेन रजतत्वादिविशिष्टस्य प्रकारतास्थले रजतत्वादेस्संयोगादिना प्रकारत्वे भ्रमत्वापत्त्या प्रकारतयोरेकसंबन्धावच्छिन्नत्वनिवेशासम्भवेन विशेषणतावच्छेदकस्य स्वाश्रयप्रतियोगिकेन विशेषणसंबन्धेन प्रकारताया विशिष्टवैशिष्ट्यबुद्धित्वशरीरे निवेश्यत्वात् । वस्तुतस्तु, नोक्तरूपं विशिष्टवैशिष्ट्यबुद्धित्वम् । विशेष्ये विशेषणमिति ज्ञानापेक्षया विषयकृतविशेषस्य वाच्यत्वात् । किं तु विशिष्टस्य केवलादन्यत्वेन तत्ल
For Private and Personal Use Only