________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
अद्वैतमञ्जरी ।
कारकत्वमेव । सिद्धान्ते तथैव स्वीकारात् । तस्माद्विषयतानिष्ठं यद्विषयतावच्छेदकत्वं तद्विशेष्यतात्वम् । तदवच्छेदकविषयतात्वं विशेष्यतावच्छेदकतात्वम् । विषयतानिष्ठस्यावच्छेदकत्वस्य निरूपकत्वविशेषौ सांसर्गिकविषयतात्वप्रकारतात्वे । तदवच्छेदकविषयतात्वे सांसर्गिकविषताप्रकारतावच्छेदकते । ननु, तादृशविशेष्यतात्वादीनामखण्डविशेष्यतात्वादिभ्यः को विशेषो येन तादृशेष्वेव पक्षपात इति चेत् । अवश्यं सर्वैः कल्पनीयत्वमेव विशेषः । अन्योऽप्ययं विशेषः मूलादौ तत्सम्बन्धे च यदवच्छेदकत्वं यच्च तन्निरूपकत्वं संयोगादौ तत्सम्बन्धे च तज्जातीययोरेवावच्छेदकत्वतन्निरूपकत्वयोर्विषयतासु कल्पनात् विषयविषयतयोद्वयोरेव ते वर्तेते । नैकत्रैव । तथा च विषयविषयतयोरेकमपि नापलपितुं शक्यते । तज्जातीयावच्छेदकतातन्निरूपकत्वयोस्सम्बन्धसम्बन्ध्युभयसापेक्षत्वात् । अखण्डविशेष्यतात्वादेविषयतायां स्वीकारे तु तस्य ज्ञानवैलक्षण्यानुभवान्यथानुपपत्तिरेव कल्पिका । सा च ज्ञानगतमेव वैलक्षण्यं कल्पयेन्न विषयतानिष्ठम् । तथा च घटत्वादिकमपि ज्ञानस्यैव धर्मः । घटपटादिज्ञानानां मिथो वैलक्षण्यानुभवस्यान्यथानुपपत्तेः । तथा च ज्ञानस्य घटादिविषयैरत्यन्ताभेदापत्त्या तार्किकाणां बौद्धस्वीकृतसाकारवादापत्तिः । अथ वेदान्तिनां मतमालम्ब्य तार्किकैरेवं वा
यम् । घटादीनामुत्पत्तिविनाशवत्त्वानुभवात् । ज्ञानस्य च विषयाविशेषितरूपेण तथाननुभवेन लाघवेन चैकव्यक्तिरूपत्वान्न ज्ञानस्य ज्ञातघटादिभिरभेदः । न चैवं तेषां व्यवहारो न स्यान्यवहारविषयतायां तादात्म्येन ज्ञानव्यक्तेः प्रयोजकतया क्लुप्तत्वेऽपि ज्ञान एव तत्तादात्म्यसत्त्वात् ज्ञानभिन्नेऽपि विषये ज्ञानसम्बन्धं स्वीकृत्य तस्य तत्र व्यवहारविषयताप्रयोजकत्वकल्पने गौरवादिति वाच्यम् । ज्ञानतादात्म्यापन्नतया विषयाणां कल्पितत्वेन ज्ञान इव विषयेष्वपि कल्पितस्य ज्ञानतादात्म्यस्य सत्त्वात् । तथा च न ज्ञानस्य घटत्वादिकं धर्मः । न हि नैल्यादिकं गगनादावारोपितमपि तस्य धर्मः । धर्मिसमसत्ताकस्यैव धर्मपदमुख्यार्थत्वात् । न च ज्ञानानां मिथो वैलक्षण्यानुभवानुपपत्तिरिति वाच्यम् । ज्ञानानां मिथो विलक्षणविषयतादात्म्यमनुभूयते । न तु मिथो वैलक्षण्यम् । तथा च ज्ञानगतस्य वैलक्षण्यस्य साकास्वादिबौद्धस्वीकृतस्य कः प्रसङ्ग इति चेत् । तर्हि वेदान्तिभिरेव जितम् । तार्किकस्वीकृतस्य सम्बन्धरूपविषयतागतस्यापि वैलक्षण्यस्य विशेष्यतात्वादेः कः प्रसङ्गः । अथैवमिदमादितद्विषयत्वयोरुक्तावच्छेदकत्वमपि न स्यादिति चेन्न। न हि तत् ज्ञानानां मिथो वैलक्षण्यानुभवान्यथानुपपत्या कल्प्यते । येनोक्तरीत्या न
For Private and Personal Use Only