________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।
२३
स्यात् । किं तु मूलादितत्सम्बन्धयोस्संयोगावच्छेदकत्ववत् सार्वलौकिकेन पूवोक्तानुभवेनेत्यलं विस्तरेण । तस्माद्विषयवैलक्षण्येनैव ज्ञानानां वैलक्षण्यस्य वाच्यत्वात् विशिष्टवैशिष्टयज्ञाने विशिष्टस्य विषयत्वा' द्विशेष्ये विशेषणं तत्रापि च विशेषणान्तर 'मिति ज्ञाने च तस्याविषयत्वादुक्तज्ञानयोस्तत्क्षणविशिष्टघटवानित्याकारसाम्येऽपि मिथो विशेषः । एवमेकत्र द्वयमिति रीत्या तादृशाकारज्ञाने तत्क्षणघटत्वाभ्यां विशिष्टो विशेषणम् । तदतिरिक्तश्च तत्क्षणविशिष्टो घटो घटत्वविशिष्टानुयोगिकस्य तत्क्षणवैशिष्टयस्य तत्र घटकत्वात्तादृशघटस्य तत्क्षणविशिष्टघटत्वेन विशिष्टस्य वा विशिष्टवैशिष्ट्यज्ञाने विषयत्वात् । विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति ज्ञाने च भूतलादौ केवलघटस्यैव विशेपणत्वात्तेषाम्मिथो विशेषः । न च तत्क्षणविशिष्टघटस्य तद्व्यक्तित्वरूपेण यत् ज्ञानं तस्य तादृशघटत्वरूपेण ज्ञानापेक्षया वैलक्षण्यं न स्यादिति वाच्यम् । तव्यक्तित्वविशिष्टविषयकत्वस्यैवोक्तवैलक्षण्यरूपत्वात् । अथ तत्क्षणविशिष्टस्य यत्र विषयत्वादिकं व्यवह्रियते तत्र तत्क्षणोपहितस्य तत्क्षणोपलक्षितस्य वा तव्यवहारः स्थादिति चेन्न । उपहितोपलक्षितशब्दयोहि न विशिष्टमर्थः । किं तु येन धर्मणोपहितमुच्यते, विद्यमानेन तेन तच्छ्न्यायावर्तितमुपहितशब्दार्थः । तथा च तत्क्षणोपहितघटो विषय इत्यत्र विषयताकाले घटे विद्यमानेन तत्क्षणेन तत्क्षणानवच्छिन्नघटादिभ्यो व्यावर्तितो घटो विषय इत्येव बुध्यते । न तु विशिष्टो घटो विषय इति । तत्क्षणोपलक्षितो घटो विषय इत्यादावप्येवम् । विद्यमानपदस्थाने अविद्यमानपदमिति तु विशेषः । तथा च तदुमयस्थले विशिष्टस्य विषयत्वाप्रत्ययात् विशिष्टस्य विषयत्वप्रत्ययस्थले विशेषणस्यापि विषयत्ताप्रत्ययादुक्तव्यवहाराणां मिथो विशेपः। अथ तत्क्षणविशिष्टं यत्र न विषयस्तत्र केवलघटादावसम्बद्धतत्क्षणस्य तदनवच्छिन्नघटादिभ्यो व्यावर्तकत्वानुपपत्तिः । घटादौ हि तत्क्षणादियुक्ते तत्क्षणाद्ययुक्ताघ्यावृत्तिधीन तु केवले इति चेन्न । तत्क्षणादियुक्तकेवलघटयोस्तत्क्षणादियुक्तत्वघटत्वरूपाभ्यां भेदस्येवाभेदस्यापि स्वीकारात् घटस्तत्क्षणयुक्त इत्यनुभवात् । अत एव घटो न तत्क्षणविशिष्ट इति धीन प्रमा । अभेदविरोधिभेदस्य नादिनोल्लेखात् । तद्विरोधित्वञ्चैकावच्छेदेनैकाधिकरणत्वस्याभावः । तेन कृष्णसंयोगिन्यपि वृक्षे मूले न कृष्णसंयोगीति धीः प्रमैव । ननु, कथं भेदाभेदयोरेकर्मिप्रतियोगिगतत्वमवच्छेदकभेदमस्वीकृत्योच्यते, न चावच्छेदकभेदं स्वीकृत्यैव तौ वाच्याविति वाच्यम् । मणिकाराद्युक्तिविरोधात् ।मणिकारेण हि 'वृक्षे कपिसंयोगतद्वद्भदौ स्वीकृत्य 'न चैवं भेदाभेद' इत्यनेन भेदाभेदमतमापाद्यावच्छेदकभेदाभ्युपगमा' दित्यनेनोक्तमतापत्तिः परिता ।
For Private and Personal Use Only