________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
अद्वैतमञ्जरी ।
तथाच भेदाभेदमतमवच्छेदकभेदनिरपेक्षमिति तदभिप्रेतम् । न च 'कार्यात्मना तु ना. नात्वं अभेदः कारणात्मना । हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदेति वाचस्पत्युक्त्या भेदाभेदवादिकारिकया अवच्छेदकभेदेनैव भेदाभेदयोरुक्तत्वान्मणिकारोक्तवाक्यस्थस्य भेदाभेद इति पदस्य दोष इति शेषतया पूरणीयम् । तथा चावच्छेदकभेदस्वीकारे भेदाभेदस्वीकारो न दोष इति मणिकारवाक्यार्थ इति वाच्यम् । अवच्छेदकभेदेन गुणगुण्यादिषु भेदाभेदानुमाने तार्किकादीन् प्रति क्रियमाणे सिद्धसाधनतापत्तेः । न हि तार्किकादिभिः कुण्डलादौ हेमत्वाद्यवच्छिन्नाभेदो न स्वीक्रियते । किं च हेमत्वादिना कुण्डलादावभेदस्वीकारे भेदोऽ पि तेनैव रूपेण स्वीकार्यः । अन्यथा हेमकुण्डलमिति सामानाधिकरण्यप्रत्ययानुपपत्तेः । न हि द्रव्यत्वघटत्वाभ्यां भेदसत्त्वेऽपि घटः कलश इति सामानाधिकरण्यधीर्भवति । तस्मात् कार्यात्मना कार्यमात्रगतकटकत्वकुण्डलत्वादिरूपैः कटककुण्डलादीनाम्मिथो भेद एव । कारणात्मनेत्यत्र कार्यात्मनेत्यनुषज्यते । तथा च कारणगतेन रूपेण कार्यमात्रगतेन रूपेण च हेमत्वकुण्डलत्वादिभ्यामभेदः । नानात्वमित्यनुषज्यते । अभेदः अभेदोऽपि । भिदा भिदैवेत्युक्तकारिकाव्याख्यानस्य वाच्यत्वेनैकरूपेणैव भेदाभेदौ वाच्यौ । अत एव भामत्यामुक्तम्-'हाटकत्वेनैव रूपेण कटकादेः कुण्डलत्वादिमत्यभेदो न तु कटकत्वादिरूपेण । तेन रूपेण तु तत्र तस्य भेद एव । एवं भेदोऽपि हाटकत्वादिना कटकादेः कुण्डलत्वादिमत्यस्ति । हाटकत्वादिरूपेण ज्ञातेऽपि कुण्डलत्वादिरूपेण जिज्ञासोदया'दिति । ननु, हाटकत्वकुण्डलत्वाभ्यामपि कटककुण्डलयोः कथमभेद उक्तः । भिन्नदेशस्थत्वेन युगपदनुभूयमानयोरभेदाप्रत्ययादिति चेन्न । यद्धि पूर्व कटकादिरूपेण स्थितं पश्चात् कुण्डलभावमापन्नं तस्यैव कटकादेस्तत्र कुण्डलादौ हाटकत्वकुण्डलत्वादिरूपाभ्यामभेदः । तद्धाटकमिदं कुण्डलमित्यादिप्रत्ययात् । न तु कटकत्व कुण्डलत्वादिरूपाभ्याम् । इदं कुण्डलं तत् कटकमित्यप्रत्ययात् । तथा च युगपत् क्रमेण वा यानि कार्याण्येकोपादानव्यक्त्या जनितानि तेषामुपादेयमात्रगतरूपैमिथो भेद एव तद्रूपोपादानगतरूपाभ्यां मिथो भेदाभेदौ । अत एवैकघटोपादानकानां रूपरसादीनामपि तथा व्यवस्था । नन्विदं कुण्डलं कटकं स्थितमिति प्रत्ययात् कथमुक्तनियम इति चेन्न । उक्तप्रत्ययेन कटकत्वोपलक्षितस्याभेदावगाहनात्तदुपहितस्य कुण्डलत्वादयुपहितभेद एवेति नियमस्यानपायात् । अत एवोक्तकारिकायां हेमात्मनेत्यादेः हेमत्वकुण्डलत्वादिरूपाभ्याम्मिथो ऽभेदेऽपि कुएडलकटकत्वादिरूपाभ्यां भिदैवेति व्याख्या । तस्मादुक्तकारिकायामेकोपादानक
For Private and Personal Use Only