________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका
नानाकार्यदृष्टान्तेन कारणकार्यरूपाभ्यामेव भेदाभेदावित्यस्यास्मदुक्तस्यैवोक्तत्वान्न कोऽपि दोषः । अथ च भावाभावयोरवच्छेदकभेदं विना विरोधादसंगतिरिति चेन्न । अवच्छेदकाभेदेन संयोगतदभावयोः विरोधः घटत्वतदभावयोस्त्ववच्छेदकनिरपेक्ष एव विरोध इत्यप्यनुभववलादेव स्वीक्रियते । तथा चावच्छेदकभेदं विनापि गुणगुण्यादिस्थले भेदाभेदावर्पि सामानाधिकरण्यप्रत्ययादेव स्वीक्रियते । अत्यन्ताभेदे अत्यन्तभेदे वोक्तप्रत्ययासम्भवात् । तदुक्तं वाचस्पत्ये--'विरुद्धमिति नः क्व प्रत्ययो यत्तन्न प्रमाणगोचरः प्रकृते च प्रमाणसत्त्वान्न विरोधप्रत्ययः । सामानाधिकरण्यप्रत्यये हि भेदाभेदौ भासेते' इति । ननु, कथमुक्तप्रत्यये भेदाभेदयोर्भानम् । तयोरेकवत्ताज्ञानस्यापरवत्ताधीविरोधित्वेनैकनिश्चयविषयत्वाभावात् । न च गुण्यादिस्थले नोक्तविरोधित्वं कल्प्यते । सामानाधिकरण्यप्रत्ययस्यान्यथानुपपत्तेरिति वाच्यम् । 'बटो न नील' इति वाक्यनन्यधीकाले 'घटो नील' इति ज्ञानापत्तेः । न च तयोरेकप्रकारकज्ञानस्यैव सामग्रया उक्तविरोधित्वम् । न त्वेकसंसर्गकज्ञानसामग्रयाः । उक्तप्रत्यये च तयोस्संसर्गतयैव भानान्नोक्तदोष इति वाच्यम् । एकसंसर्गकधीसामग्रया अप्युक्तविरोधित्वस्यानुभवसिद्धत्वात् । न हि घटोऽभेदसंबन्धेन नीलविशिष्ट इति धीकाले घटो भेदसंबन्धेन नीलविशिष्ट इति धीर्घटो न नील इति धीर्वाऽनुभूयते । किं च सामानाधिकरण्यप्रत्यये संसर्गत्वेनाभेदस्य भानेऽपि भेदस्य भाने मानाभावः तथा च द्वयोस्तत्र भानं वाचस्पत्युक्तमसङ्गतमिति चेन्न । एकधर्मावच्छिन्ने धर्मिणि भेदाभेदविषयकस्य निश्चयस्यासंभवेऽपि तादृशप्रत्यये भेदसामानाधिकरण्यविशिष्टाभेदविषयतायां बाधकाभावात् । न हि 'नीलभेदविशिष्टं द्रव्यं नीलो घट' इत्याकारकधीर्नोत्पद्यते। न च घटो नील इत्यादिज्ञाने तादृशविषयतापि न संभवति । घटत्वविशिष्टे हि तादृशाभेदस्य विषयत्वे भेदस्यापि घटत्वविशिष्टे विषयताया आवश्यकत्वेन पूर्व घटत्वविशिष्टे भेदनिश्चयस्यावश्यकत्वं घटे नीलभेदम्य संशयोत्तरं घटे नीलस्य भेदसमानाधिकरणाभेदसंसर्गकनिश्चयस्यानुत्पत्तेः । तत्र नीलभेदनिश्चयस्य हेतुत्वात् । तदुक्तमनुमानदीधितौ----' साध्यसामानाधिकरण्यविशिष्ठहेतोः पक्षे निश्चयस्तु पक्षे साध्यनिश्चयं विनाऽनुपपन्न' इति । एतावांस्तु भेदः । यद्वह्विसामानाधिकरण्यविशिष्टधूमवान् पर्वत इति पर्वतांशे विशिष्टधूमस्य प्रकारत्वात् वह्निरपि तत्र प्रकारः । घटो नील इत्यादौ तु घटे विशिष्टाभेदस्य संसर्गत्वाद्भेदस्यापि संसर्गता । अत एव घटे मेदसंसर्गकज्ञाने भेदसंसर्गेण नीलप्रकारकज्ञानमेव हेतुः । औचित्यात् । न तु भेदप्रकारकमिति वाच्यम् । भेदसामानाधिकरण्योपल
For Private and Personal Use Only