________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
क्षिताभेदविषयतायामुक्तदोषाभावात् । अथ भेदस्य तथाभानेऽपि किं मानमिति
चेदत्र ब्रूमः । तद्धटे तद्धटस्य संयोगादिसम्बन्धेन धीर्न प्रमा । किं तु तद्धटभिन्न इति व्यवस्थासिद्धये विशिष्टधीमात्रे विशेष्ये विशेषणस्य भेदसमानाधिकरणस्संबन्धो विषय इति कल्प्यते । तथा सति हि तद्धटे तस्य संयोगादिसत्वेऽपि तद्भेदसमानाधिकरणसंयोगादिसम्बन्धस्यासत्त्वान्नोक्तधीः प्रमा । न चोक्तसामानाधिकरण्यं तद्धटसंयोगेऽप्यस्त्येव । तस्य तद्धट इव तदन्यस्मिन् पटादावपि सत्त्वात् । तथा च तदुपलक्षितसंयोगस्य तद्धटेऽपि सत्त्वात् कथं न प्रमेति वाच्यम् । उक्तोपलक्षितत्वं हि प्रकृते तद्भेदोपलक्षिताधिकरणवृत्तित्वविशिष्टत्वम् । तथा च अधिकरणांशे भेदस्य विशेषणत्वेन न भानम् । किं तु उपलक्षणतया । तदुपलक्षिताधिकरणवृत्तित्वस्य तु संयोगादिसंबन्धांशे विशेषणतयैव सर्वत्र भानम् । तादशाधिकरणवृत्तित्वविशिष्टसंयोगादेश्च न तद्धटादौ सत्त्वमिति नोक्तधीः प्रमा। ननु, 'तद्धटस्तत्कम्बुग्रीवादिमान्' इत्यादौ घटत्वकम्बुग्रीवादिमत्त्वरूपाभ्यां भेदसम्भवात्तादात्म्येन प्रमा स्वीक्रियते । तथा तद्धटस्तत्कम्बुग्रीवादिमद्वानिति संयोगेनापि प्रमा स्यादिति चेन्न । व्याप्यव्यापकभावापन्नधर्मद्वयं यत्र विशेषणतायां विशेष्यतायां वा अवच्छेदकं, तत्र व्याप्यधर्म एव भेदे प्रतियोगितावछेदकतयाऽनुयोगितावच्छेदकतया वा भासते । व्यापकधर्पस्तु, प्रतियोग्यंशे विशेषणमात्रतया भासते । न तु उक्तावच्छेदकप्रविष्टतया । द्रव्यं घटो नास्तीत्यादिप्रतीतेः द्रव्यवत्युत्पत्तेः व्यापकविशिष्टव्याप्यस्य तु गौरवेणानवच्छेदकत्वात् । अत एव प्रमेयषटो नास्तीत्यादौ प्रमेयत्वादेरवच्छेदकत्वासम्भवात् । प्रमेयत्वोपलक्षितघटत्वादेरवच्छेदकत्वमुक्तं पक्षधरामिश्रादिभिः । तत्र घटत्वमेवावच्छेदकं प्रमेयत्वं तु प्रतियोगिनि विशेषणमित्यर्थः । तथाच तद्धटइत्याद्युक्तस्थले व्याप्यीभूततव्यक्तित्वावछिन्नप्रतियोगितानुयोगिताकभेदस्यैव भानं व्युत्पत्तिसिद्धं वाच्यम् । स च बाधित इति न प्रमा । अत एव तादात्म्येनोक्तधीरपि न प्रमा । तद्वक्तिस्तद्व्यक्तिमतीति धीवत् । नच तथाऽपि कम्बुग्रीवादिमान् समवायेन घटवानित्यपि प्रमा स्यात् । घटीयसमवायस्य घटे सत्त्वादिति वाच्यम् । घटो भूतलसंयोगीति प्रमावत् घटः कपालसमवायीति बुद्ध्यभावेन घटस्य स्वसमवायानुयोगित्वाभावात् । ननु, यस्माद्विशेषणाद्वस्तुगत्या भिन्नं विशेषणसम्बन्धि च यत् विशेष्यं तस्य तत्र विशिष्टधीत्वं प्रमात्वं वाच्यम् । न संसर्गघटकतया भासमानविशेषणभेदघटितम् । तथा च विशेषणभेदस्य विशिष्ठधीविषयत्वानियमेऽप्युक्तधियो अप्रमात्वोपपत्तिरिति चेन्न । प्रमात्वस्य तादशत्वे पारिभाषिकत्वापत्तेः । प्र
For Private and Personal Use Only