SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ अद्वैतमञ्जरी । नाजन्यत्वस्यैव व्याप्यत्वात् । ननु, व्यर्थत्वमसिद्धम् । पक्षधर्मतीपयिकत्वाव्याभिचारवारकस्यापि सार्थकत्वे अनुमितिप्रयोजकत्वस्यैव बीजत्वादिति चेन्न । नीलधूमे धू. मत्वमेव व्याप्यतावच्छेदकम् । न तु नीलत्वमपि । गौरवात् । दण्डत्वेन कारणत्वे रूपमिव । एवं शरीराजन्यत्वेऽपि न शरीरमवच्छेदकम् । गौरवात्।येन विशेषणेन विना व्याप्तिर्न गृह्यते, तस्यैव व्याप्यतावच्छेदकत्वनिपमात् । अत एव रूपादिमध्ये रूपस्यैव व्यञ्जकत्वादित्यत्र मध्यान्तं विना व्याप्त्यग्रहात्तत्सार्थकमेवे'त्यादिकं तत्रोक्तम् । उक्तं च तत्र पक्षधरैः- गौरवमेव तदहेतुतायां बीज'मिति । ननु, स्वसमानाधिकरणव्याप्यतावच्छेदकान्तराघटितत्वं हेतुतावच्छेदके विशेषणं दीयते । तथा च नीलधूमत्वं न व्याप्यतावच्छेदकम् । शरीराजन्यतात्वं तु तदवच्छेदकमेव । धूमप्रागभावत्वादिवत् । स्वसमानाधिकरणेन व्याप्यतावच्छेदकान्तरेणाघटितत्वादनन्यतात्वस्य जन्यतासामान्याभावनिष्ठत्वेन शरीराजन्यत्वरूपे जन्यताविशेपाभावे अभावात् । गौरवादनवच्छेदकत्वे एथिवीत्वत्वादीनां तत्र तत्रावच्छेदकत्वोक्तिरसङ्गता स्यात्। गन्धत्वस्यैव तत्सम्भवादिति चेन्न । एथिवीत्वत्वादीनां व्यतिरेकव्वाप्त्यवच्छेदकत्वस्यैव तत्रतत्रोक्तत्वाध्यतिरेके व्यर्थविशेषणत्वस्य तान्त्रिकैरस्वीकारात् । किं चेश्वरवादीयपक्षधरीये ' तादृशधर्मान्तराद्यघटितत्वेन हेतुतावच्छेदकं विशेषणीयमित्युक्तम् । तत्र तादृशपदं साध्यसम्बन्धितावच्छेदकरूपव्याप्तिपरम् । पूर्वग्रन्थे तस्यैव प्रक्रान्तत्वात् । तथा च स्वसामानाधिकरण्यप्रवेशस्य तान्त्रिकसंप्रदायासिद्धत्वात् स्वकपोलकल्पितत्वं नियुक्तिकत्वं च । न हि धूमप्रागभावोपस्थितिकाले उपस्थितस्य धूमस्य हेतुत्वं नोद्भावयितुं शक्यम् । न च विशेषणतासम्बन्धेन या प्रागभावनिष्ठा व्याप्तिः, तदुपस्थितिकाले संयोगेन धूमनिष्ठव्याप्तेः उपस्थित्यनियमात् स्वसमानाधिकरणेत्याद्यवश्यं वाच्यमिति वाच्यम् । धूमज्ञानेनैव धूमनिष्टोक्तव्याप्ते. रुपस्थितेः । तस्मात् स्वसमानाधिकरणेत्यादिविशेषणं व्याप्यतावच्छेदकधर्मान्तराघटितत्वं वा विशेषणं न देयमेव । धूमप्रागभावत्वं नीलधूमत्वं वा गौरवान्नावच्छेदकम् । उक्ततान्त्रिकवाक्यानां तदैव स्वारस्यात्।अतस्साधूक्तं व्याप्यत्वासिद्धिरिति । ननु, शुद्धब्रह्मणोऽनधिकरणत्वस्वीकारे साध्यवैकल्यम् । अथ वृत्त्यनियामकतादात्म्यस्यैव ब्रह्मणि स्वीकारान्न तथेत्युच्यते, तदा 'अज्ञः कालकाल' इत्यादिश्रुत्या ब्रह्मणः अविद्यारूपकालाधारस्योक्त्यनुपपत्तिः। किं च प्रातिभासिकत्वस्योक्तानुयोगित्वरूपमधिकरणत्वं न हेतौ निवेश्यम् । येनोक्तरीत्या वैयर्थ्यमुच्येत । किं तु प्रातिभासिकभेद एव । अत एव वक्ष्यते प्रातिभासिकव्यावृत्तीत्यादि । तत्राह-किं चेति । बाधानुपपत्तीति । 'यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानत' For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy