________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देप्र० सत्यत्वानुमानभङ्गः]
लघुचन्द्रिका।
१९५
इत्यादिश्रुत्यनूदितबाधानुपपत्तीत्यर्थः । यस्मिन् तत्वज्ञानकाले । तथा च सर्वाणि भूतानि यत्कालीनात्मैवाभूदित्यर्थः । सर्वाणि भूतानि स्वकालपूर्वत्वाभाववद्यत्कालीनात्मतादात्म्यवन्तीति थावत् । 'तत्र कोमोह'इत्यादेस्तत्काले चरमतत्त्वज्ञानोत्पत्तिक्षणरूपे शोकादिकं स्वपूर्वत्वसम्बन्धेन नास्तीत्यर्थः । व्यावर्तकतया अनुमापकतया । साक्षात् भावाभावविधया। एका एकैव । न, मान्त्वेकैव व्यावृत्तिः । प्रातिभासिकत्वेन भेदस्यासत्त्वेन भेदस्य च सत्त्वात् । तथापि प्रातिभासिकासतोरन्यतरत्वेन भेदस्यैकस्य सत्त्वात्तदनुमापकतया ब्रह्मविश्वयोः पारमार्थिकत्वसि. द्धिरास्ताम् । तत्राह-तथा चति । द्वयसमावेशादिति । द्वयेन सह समावेशः सामानाधिकरण्यं यस्य तेन । ब्रह्मविश्वान्यतरत्वादिनेति यावत् । उभयव्यावृत्त्युपपत्तौ उभयोरेकमात्रभेदविशिष्टापरमात्रभेदस्यान्यतरत्वेन भेदस्य वानुमानसम्भवे। नीलघटत्ववत् नीलघटत्वस्येव । उभयव्यावृत्तेरिति शेषः । यथा घटीयनीलरूपं प्रति घटं प्रति च क्लप्ताभ्यां कपालीयनीलरूपादिदण्डादिसामग्रीभ्यामेव नीलघटस्योत्पत्तिसिद्धेन तत्रान्यत्कारणं कल्प्यते,तथा क्लप्तेनोक्तान्यतरत्वादिनोभयव्यावृत्त्यनुमानसम्भवात्तदर्थं न ब्रह्मविश्वयोरेक जातीयसत्यत्वादिकं कल्प्यते । अन्यथा तुच्छबह्मणोः प्रपञ्चव्यावर्तकमसत्यत्वं स्यात् । तदुभयान्यतरत्वस्य तदुभयमात्रविशेष्यकधीविशेष्यत्वस्य। व्यावर्तकत्वं तु तुल्यमिति भावः । नित्यत्वम् अविनाशित्वम् । व्यतिरेक इति । सतिसप्तम्या व्यापकत्वमर्थः । तेनानित्यत्वव्यापकमपारमार्थिकत्वमिति लभ्यते । अत एव बाधानुपपत्तिलक्षणप्रतिकूलतर्कान्नित्यत्वाद्युपाधिमत्त्वाच्चैव । अनिषेध्यत्वेनेत्यादि । स्वाधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वविषयत्वानिरूपितप्र. माविषयत्वादित्यर्थः । तस्य तत्र ईश्वरे । भान्तत्वप्रसङ्गः विशेषदर्शिनां भान्तताव्यवहारप्रसङ्गः । मिथ्यात्वेनेति । तथा च स्वसमानाधिकरणविशेषदर्शनाकालीनस्य बाधितविषयकज्ञानस्याश्रयत्वं भ्रान्तत्वव्यवहारे विषयः । कालीनान्तविशेषणानुपादाने उक्तविशेषदर्शनकालीनस्य सोपाधिकभ्रमस्य आश्रये पुरुषेऽपि 'अहं भ्रान्त इति व्यवहारस्स्यादिति भावः । अन्यथा उक्तविशेषदर्शनकालीनभूममादाय भ्रान्तत्वव्यवहारस्वीकारे । सविषयकभ्रमज्ञातृत्वेनेति । भ्रमविषयत्वपर्याप्त्यधिकरणं यत् मुखादिविशिष्टदर्पणादिकं तस्य भ्रमस्य च मिथ्यात्वेन यत् ज्ञातृत्वं तेनेत्यर्थः । भ्रान्तत्वस्य भ्रान्तत्वव्यवहारस्य । यथाश्रुते बाधितविषयकज्ञानवत्त्वरूपभ्रान्तत्वस्येष्टत्वात् असङ्गतत्वात् । तथाविधत्वात् विसंवादित्वेन ज्ञायमानत्वात् । संवादित्वेन ज्ञायमानप्रवृत्तौ ताढशस्योपादानप्रत्यक्षादेहेतुत्वे ऽप्यतादृशप्रवृत्तावतादृशस्य तस्य हेतुत्वमिति भावः।सप्रकारेत्यादि।सप्रकाराबाध्यं
For Private and Personal Use Only