________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
यदर्थक्रियाकारि तत्त्वादित्यर्थः । मनोवच्छिन्नचैतन्यादेरधिष्ठानत्वपक्षे जाग्रद्धीबाध्यत्वेऽपि ब्रह्माधिष्ठानकत्वपक्षे तदबाध्या स्वाप्नधीरिति तत्पक्षे व्यभिचारमाह-जाग्रदिति । सङ्गमादीत्यादिना सोऽयमित्यादिवाक्यजन्यनिष्प्रकारकधीबाध्यभेदादिपरिग्रहः । विशेषितेति । विशिष्टेत्यर्थः । ज्ञानमेव केवलज्ञानम् । न तु सङ्गमादिविशिष्टम् । सङ्गमादिकं नार्थक्रियाकारीति यावत् । नातिरिक्तः न स्वविषयान्यो जात्यादिः । उक्तमुदयनाचार्यैः । निराकारतयेति । यदि ज्ञानादत्यन्तभिन्नो बहिः स्थितः अर्थ एव ज्ञाने विशेष इति नोच्यते, तदा जात्यादिकं ज्ञानधर्मोऽपि ज्ञाने विशेषस्स्यात् । तद्वदर्थोऽपि घटादिज्ञानगत आकाराख्यो धर्मः स्यात् । तथा च बहिरनुभूयमानार्थापलापेनानुभवबाधः स्यात् । विरुद्धनानाविधाकारत्वात् समूहालम्बनज्ञानादेस्साकारत्वादिकमेव दुर्वचं स्यात् । तस्मात् ज्ञानस्य निराकारत्वमेव युक्तम् । अत एव साक्षात्कारत्वमिन्द्रियसन्निकर्षजन्यज्ञानत्वम् । अनुमितित्वादिकं व्याप्त्यादिधीजन्यज्ञानत्वादिकम् । न तु जातिरूपमिति भावः । स्वाप्नज्ञानस्याप्रमात्वे संवादमाह-तथाचोक्तमिति। उपलक्षणत्वासम्भवादिति । येनोपस्थापितो ऽर्थ एव वाक्यार्थबोधे विषयः । न तु स्वयं, तत् उपलक्षणम् । यथा 'काकवतो गृहान् पश्यामी'त्यादौ काकोपस्थापितमुत्तृणत्वमेव गृहे विशेषणम् । न तु काकः । यथा वा शब्दाश्रय आकाशपदशक्य इत्यादौ व्यक्तिमात्रस्य शब्दाश्रयत्वोपस्थापितस्य शक्यतया भानम् । म तु शब्दाश्रयत्वस्यापि । 'सङ्गमादिज्ञानं सुखहेतु'रित्यादिव्यवहारे तु विषयेण शुद्धज्ञानव्यक्तिरुपस्थिता हेतुत्वेन बुध्यते । अननुगतत्वेन व्यक्तेरनुगतधर्ममपुरस्कृत्य हेतुत्वज्ञानासम्भवात् । नापि तद्गतो धर्मः । साकारवादापत्यादिना तदसम्भवादिति विषयो नोपलक्षणमिति भावः । ननु, फलोत्पत्तिपूर्वकालासतोऽपि व्यापारिणः कारणत्वं युक्तम् । फलं प्रति यन्नियतपूर्वभावि, तन्नियतपूर्वभाविन्यपि कारणतायाः लोके ' गोमयैः पचती ' त्यादौ वेदे 'तुपपक्का भवन्ति । 'स्वर्गकामो यजेते' त्यादौ व्यवहारात् । विषयस्य तु ज्ञानं प्रत्यपि पूर्वभावित्वाभावात् कथं कारणत्वम् । स्वस्वव्यापारान्यतरनिष्ठफलनियतपूर्ववृत्तिताकत्वस्यैव कारणत्वरूपत्वात् । तत्राह-अतीतेति । असत्वेति । तत्तत्कालावच्छिन्नं सर्वदेशनिष्ठात्यन्ताभावप्रतियोगित्वमित्यर्थः । अनाश्रयत्वेति । तत्तकालावच्छिन्नाश्रयत्वस्याभावेत्यर्थः । अतीतादेस्तत्कालासम्बन्धे तत्कालावच्छिन्नमसत्त्वादेर्धर्मस्याश्रयत्वं तत्र न स्यात् । अधिकरणे हि सम्बद्धमेवावच्छेदकम् । नासम्बद्धमिति भावः । स्वरूपेत्यादि । 'यत्र यत्र ज्ञाने स्वरूपतो न बाध्यता, तत्र
For Private and Personal Use Only