________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्रदे सत्यत्वानुमानभङ्गः]
लघुचन्द्रिका ।
१९७
विषयतोऽपि न बाध्यत्व'मिति नियमाद्विषयाबाधस्य स्वरूपाबाधव्यापकतया व्यापंकस्य विषयाबाधस्याभावे व्याप्यस्य स्वरूपाबाधस्याप्यभाव इत्यर्थः । 'इदं रजत'मिति यत् ज्ञानं जातं, तत् मिथ्येत्यादिप्रत्ययेन विषयविशिष्टस्य ज्ञानस्य मिथ्यात्वावगाहनाद्विषय एव मिथ्या । न तु ज्ञानमिति वक्तुं शक्यमिति भावः । अकारणकति । सत्यकारणहीनेत्यर्थः । मिथ्याभूतं यदि कारणं स्यात् सत्यं स्यात् । यन्नैवं तन्नैवं यथा नृशृङ्गम् । अथवा कारणं 'यदि सत्यं न स्यात्, तदा कारणं न स्या'दित्यादितर्को बोध्यः । कालसत्त्वस्य कालसम्बन्धस्य । अयमेवेति । ननु, आरोपितपदेन मिथ्यात्वेनोभयवादिसिद्धं वाच्यमिति चेन्न । जीवाणुत्वादिमिथ्यात्वस्य त्वया मया च मिथ्यात्वेन स्वीकारात्तत्र व्यभिचारो मन्मतरीत्या हि दुर्वारः । मन्मते तस्य सत्यत्वाभावनिश्चयात् । किं चोक्तसिद्धत्वं यदि ज्ञातत्वं, तदा शुक्तिरूप्यादिमिथ्यात्वे कदाचिन्मिथ्यात्वेन ज्ञातत्वाव्यभिचारः । यदि प्रमितत्वं, तदा तदसिद्धम् । प्रपञ्चे सत्त्वसिद्धेः पूर्वं तन्मिथ्यात्वज्ञानस्य प्रमात्वासिद्धेः । न च व्यावहारिकप्रमात्वं निवेश्यम् । न तु तात्त्विकम् । तथा च तत्त्वावेदकत्वरूपप्रमात्वस्य तत्रासिद्धावपि मतद्वयेऽपि व्यवहारकालाबाध्यमिथ्यात्वप्रकारकप्रमात्वरूपस्य व्यावहारिकप्रमात्वस्य निश्चयोऽस्त्येव । प्रपञ्चमिथ्यात्वं हि यदि प्रातीतिकं यदि वा व्यावहारिकमुभयथापि तन्मिथ्यात्वं व्यावहारिकमिति वाच्यम् । तथा सति व्यवहारकालाबाध्यं यत् मिथ्यात्वं तदाश्रयमिथ्यात्वं पर्यवसितहेतुः । तथा च यस्य प्रातीतिकस्य मिथ्यात्वे ब्रह्मज्ञानाव्यवहिते पूर्वकाले स्वप्नकाले वा मिथ्यात्वभ्रमः । तत्रापि हेतुसत्त्वाध्यभिचारः । बाध्यपदेन बाधयोग्योक्तावपि स्वाप्नाध्यासस्य मूलाविद्योपादानकत्वमते स्वाप्तमिथ्यात्वस्य व्यवहारकालबाधायोग्यत्वात् । ततश्च तद्वारणाय तत्त्वावेदकरूपोभयवादिसिद्धप्रमानिवेशे तात्त्विकमिथ्यात्वाश्रयमिथ्यात्वं पर्यवसितहेतुः । तथा च हेत्वप्रसिद्धिपर्यवसानम् । कल्पनासमसत्ताकत्वेन मिथ्यात्वेन । आश्रयत्वेत्यादि । तमसो अज्ञानस्याश्रयत्वं विषयत्वं च शुद्धचित्येव । पश्चिमः पश्चाज्जातोऽहङ्काराद्यवच्छिन्नात्मा । पूर्वसिद्ध. तमसो नाश्रयादिः । पश्चिमत्वादेव । तथा च शुद्धस्याविद्याश्रयविषयत्वे अविद्याकार्यभ्रमतद्विषयौ प्रत्याश्रयत्वं विषयत्वमपि सम्भवतीति भावः । शुद्धस्य धर्मासम्बन्धपक्षेऽपि न क्षतिरित्याशयेनाह । अस्तुवेति । कल्पकत्वेति । कल्पनाहेतुत्वेत्यर्थः । विरोधादिति । तथा च बाधान्मिथ्यात्वमेव कल्प्यते । नासत्त्वम् । प्रत्यक्षत्वात् साक्षितादात्म्यं कल्प्यते नासत्त्वमिति भावः । व्यावृत्ताकारेण भूमनिवतकतायोग्यज्ञानेन । मुखैक्यसाक्षात्कारोति । दर्पणाद्युपाधिसन्निधानरूपदोषषि
For Private and Personal Use Only