________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
अद्वैतमञ्जरी ।
शेषाजन्यज्ञानस्यैव विशेषदर्शनविरोधित्वम् । तदुक्तं मणिदीधित्यादौ-निर्णयात्मनि साधारणे वा दोषविशेषाजन्यज्ञाने साधारणस्य निर्णयात्मनो वा विपरीतज्ञानस्य विरोधित्वादिति भावः । तद्व्यतिरेकेणोपलभ्यमानत्वस्य तदविषयकोपलब्धिविषयत्वस्य । तत्पदमात्मपरम् । प्रपञ्चोपलब्धेस्सद्रूपात्मविषयकत्वनियमात् साधनाव्यापकत्वम् । अत्रेदं बोध्यम् । तत्त्वसाक्षात्कारो विशेषणमुपलक्षणं वा । आये घटादावसिद्धिः । न हि यदात्मा साक्षाक्रियते, तदा घटादौ ज्ञानं प्रवृत्तिर्वा । उक्तं हि विवरणे-'कदाचिदद्वैतदर्शनं कदाचिद्वैतदर्शनम् । न तु तयोस्सन्तमसबहुलालोकयोरिव योगपद्य' मिति । ईशाद्यात्मदर्शनं तु न द्वैतसाक्षात्कारप्रवृत्त्यादिविरोधि । प्रमाणत्वाभावात् । द्वितीये शुक्तित्वादिरूपेण प्रत्यक्षे जातेऽपि दिनान्तरे शुक्त्यादौ रजतादावारोपिते प्रवृत्तव्यभिचारः । ऐन्द्रजालिकामिति । ऐन्द्रजालिको हि स्वमायापरिकल्पिताम्रवृक्षतत्फलादिग्रहणच्छेदनादौ प्रवृत्तो दृश्यते। हरिवंशादौ प्रद्युम्नशम्बरयुद्धादौ---'ततो मायां परां चके देवशत्रुः प्रतापवान् । सिमान् व्याघ्रान् वराहांश्च तरसूनृक्षवानरान् ॥ मुमोच धनुरादाय प्रद्युम्नस्य रथोपरि । गन्धर्वास्त्रेण चिच्छेद सर्वांस्तान् खण्डशस्तदा । प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः ॥ अन्यां मायां मुमोचाथ दानवः क्रोधमूर्छितः ।।' इत्यादौ तथा श्रूयतेऽपि सः । स्वमायाविनिर्मितगजादे रक्षणादौ प्रवृत्तिस्तत्प्रत्यक्षं विना न सम्भवति । प्रवृत्तौ उपादानप्रत्यक्षस्य हेतुत्वात् । कारणात्मना कारणगतसंस्काररूपेण । न च तर्हि तत्रैव साध्यं साधनीयमिति वाच्यम् । अवस्थितत्वं हि स्थूलावस्थावत्त्वं वाच्यम् । अन्यथा अवस्थितत्वान्यांशवैयर्थ्यापातात् । अबाधितशुक्तिरूप्यादिसूक्ष्मावस्थायां व्यभिचाराच्च।
अत्रेद बोध्यम् ' ऐन्द्रजालिकेन द्वित्रिदिनस्थायिस्वमायानिमितमपि प्रदश्यते । तच्च तस्मिन् सुषुप्तेऽप्यव्यवस्थितमेवेति तत्र व्यभिचारः । मिथ्यामात्रेति । प्रतियोगित्वविषयत्वादौ व्यभिचारान्मात्रेत्युक्तम् । न्यूनवृत्तित्वस्येति । न च प्रमेयत्वे आत्मान्यसर्वान्तर्गततुच्छावृत्तौ मिथ्यात्वान्यूनवृत्तौ च साध्याव्यापकत्वमिति वाच्यम् । प्रमेयत्वस्य मिथ्याभूते स्वस्मिन्नवृत्त्या मिथ्यात्वन्यूनवृत्तित्वात् । यद्यपि प्रमेयत्वे प्रमेयत्वान्तरं वर्तते, तथापि न प्रमेयत्वत्वरूपेण । सम्बन्धप्रतियोगित्वानुयोगित्वयोरेकरूपेणास्वीकारात् । न च प्रमेयत्वे मिथ्यात्वमसिद्धमिति वाच्यम् । 'घटः प्रमेय' मित्यारोपसत्त्वात् । तथा च येन रूपेण साध्ये वृत्तिनिविष्टा, तेन रूपेणोपाधाविति न दोषः । न चैव मिथ्यात्वस्यापि स्वावृत्तित्वेन मिथ्यात्वन्यूनवृत्तित्वात् साधनव्यापकत्वमिति वाच्यम् । व्यावहारिकमिथ्यात्वे मिथ्यात्वस्य पूर्वमसिद्धत्वात् । अत एवासदन्यत्वादावपि न साध्याव्यापकत्वम् । असदन्यत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापक
For Private and Personal Use Only