________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे सत्यत्वानुमानभङ्गः ]
www.kobatirth.org
लघुचन्द्रिका ।
Acharya Shri Kailassagarsuri Gyanmandir
१९९
त्वादरे तु सुतरां न दोषः । किं च सदुपरागेणासतोऽपि प्रमाविषयत्वात् । अन्यथात्मान्य सर्वमध्य पतितासद्घटितसाध्यप्रमाया असम्भवात् प्रमेयत्वादेस्स्ववृत्तित्वमतेऽपि साध्यव्यापकत्वमक्षतम् । सर्वमध्येति । न च सर्वपदेन सदन्यसर्वं वाच्यमिति वाच्यम् । असत्त्वस्य त्वन्मते शुक्तिरूप्यादावपि स्वीकारेण सर्वपदवैयर्थ्यापत्तेः । मन्मतरीत्या सदसदन्यत्वस्य पक्षे निवेशेऽपि सदन्यत्वमात्मव्यक्तित्वावच्छिन्नभेद एव निवेश्यः । अन्यथा त्रिकालावाध्यत्वस्य गुरुत्वेन तद्रूपेण भेदस्याप्रसिद्धेः । तथा चात्मासद्भ्यां भिन्नत्वं स्वाश्रयसर्ववृत्ति नेत्यनुमाने बाध एव । गुरोरवच्छेदकत्वपक्षेऽपि मन्मते सदन्यत्वस्यात्मान्यत्वरूपतया मां प्रति बाध एव । तथा च मन्मते दुष्टहेतोर्मां प्रति उपन्यासो न युक्तः । अप्रयोजकत्वादित्यादिना सत्यत्वं प्रातिभासिकान्यसर्ववृत्ति न । सत्यमात्रवृत्तित्वात् । आत्मत्ववदित्याद्याभाससाम्यम् । पदार्थम् आत्मभेदपदार्थम् । न चात्मनि त्वन्मते तदस्यास्वीकारात् न सिद्धसाधनमिति वाच्यम् । शुद्धब्रह्मणि जीवादेर्भेदसत्त्वात् आनन्दो ब्रह्मणो धर्म इत्यादिभेदस्य व्यवहारकालाबाध्यत्वाच्च । अनानन्दत्वस्येति । न च परमार्थसदैक्यरूपं साध्याभावं दिनाप्यानन्दत्वस्य उपाध्यभावस्योपपन्नत्वात् न तस्य तद्व्याप्यता ग्राहक तर्कोऽस्तीति वा - च्यम् । परमार्थसदस्यानन्दे संसर्गखण्डनयुक्तिभिर्वाधात् । 'नाल्पे सुखमस्ती' त्यादिश्रुत्या परमार्थभेदादिरूपस्य परिच्छेदस्यानन्दावृत्तित्वोक्तेश्च भावाद्वैतमते तात्वि कस्याभावरूपानात्मनः स्वीकारादाह - भावरूपेति । शब्दस्वभावेति । उदाहरवाक्यस्थ स्वपदस्य दृष्टान्तपरत्वे पदार्थत्वस्य यावत्तत्स्वरूपानुवर्तमानानात्मवत्त्वव्यभिचारित्वेन व्यापकत्वग्रहासम्भवः । स्वात्मकपदार्थत्वस्य हेतुत्वेन तद्वारणेऽपि स्वत्वान्यभागवैयर्थ्यं स्वरूपासिद्धिव । प्रतिज्ञाहेतुवाक्यस्थस्वपदयोः पक्षपरतया पक्षरूप स्वपदार्थघटितसाध्यहेत्वोः प्रतिज्ञाहेतुवाक्यनिर्दिष्टयोरुदाहरणादिवाक्ये व्याप्यव्यापकत्वादिलाभासम्भवात् कुतोऽस्य गमकत्वमित्यादिजिज्ञासानिवर्तकत्वाभावः । तथा चोक्तशब्दस्वभावोपन्यासो नानुमानोपयुक्तः । उक्तं च मणावीश्वरवादे'कार्यत्वस्वोपादानाभिज्ञजन्यत्वसाध्ययोर्व्याप्तिग्रहः किं घटोपादानान्तभीवेन, किं वा तत्तदुपादानान्तभवेन, किं वोपादानमात्रान्तभीवेन । आदौ व्यभिचारः । द्वितीये तत्तदुपादानत्वस्याननुगतत्वात् कथं व्यापकताग्रहः । अथ तच्छब्दस्य समभिव्याहृतपरत्वान्न दोष इति चेन्न । अनुमाने शब्दस्वभावोपन्यासस्याप्रयोजकत्वात् । तृतीये तु, सिद्धसाधन' मिति । स्वपदस्य पक्षदृष्टान्तान्यतरपरत्वेऽपि सिद्धसाधनम् । बन्धपदार्थस्येति । तत्तत्स्वातन्त्र्यविरोधिरूपनानार्थकं बन्धपदम् । अत एवाविद्यावतामपि निगलादिबन्धविमोके निर्बन्धत्वं व्यवहरन्ति । आत्मान्यनिवृत्तेर्हेतुत्वेऽपि व्य
For Private and Personal Use Only