SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०० www.kobatirth.org अद्वैतमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir 1 र्थविशेषणत्वम् । स्वपदे चेति । दृष्टान्तपरत्वे निगलबन्धविषयाप्रसिद्ध्यादिः । पक्षपरत्वे चाज्ञानविषयविषयकज्ञानाचाध्यानात्माप्रसिद्धिः । नान्धगम्यमिति । ननु स्वविषयान्यूनानतिरिक्तविषयकज्ञानावाध्यत्वस्य साध्यत्वे नायं दोष इति चेन्न । 'अन्धोऽयं रूपज्ञानवा' नित्यस्य 'रूपमन्धगम्य' मिति वाक्यजन्यज्ञाने तात्पर्यात् । 'रूपं नान्धगम्य'मित्यस्य च 'रूपमन्धगम्यत्वाभावव 'दिति वाक्यजन्यज्ञाने तात्पर्यात् । तथा च समानविभक्तिकनामद्वयजन्यज्ञानस्य निर्विकल्पकत्वेन प्रकृते रूपमात्रविषयकत्वादुपलक्षणविधया तयोर्ज्ञानयोरन्धगम्यत्वतदभावयोः प्रकारत्वेऽपि विशेषणविधया प्रकारत्वाभावात्तादृशज्ञानयोरन्यूनानतिरिक्तविषयकत्वा तादृशधीत्राध्येऽन्धप्रत्यक्षविषयत्वे व्यभिचारस्य दुर्वारत्वात् । यथा हयुपलक्षणविधया व्यावर्तकधर्मस्य बाधक - धीविषयत्वं, तथोपलक्षणविधया बाध्यवीविषयस्य बाध्यत्वम् । न्यायतौल्यादिति भावः । चैतन्यमात्रेति । आत्मधीः आत्मव्यवहारप्रयोजकधीः । सा च चिदपीति भावः । काचादावंशतस्सिद्धसाधनात् आत्माधिष्ठानकेति । व्यावृत्ताकारेत्यादि । यं प्रति व्यावर्तकधर्मवत्तया ज्ञातं सत् स्वजन्यभ्रमाधिष्ठानं स्वजन्यभ्रमनिवर्तकं तदन्यत्वस्येत्यर्थः । अविद्यादिकं प्रति व्यावर्तकं द्वितीयाभावादिकं तद्वत्तया ज्ञातमविद्यादिजन्यभूमाधिष्ठानं ब्रह्म उक्तभूमनिवर्तकम् । अतोऽविद्याकामकर्मरूपो दोषो न तदन्यः । किं तु काचादिरिति बोध्यम् । यद्यपि व्याप्यभ्रमस्य भ्रमानुमितिजनकस्य 'हूदो निर्वहि 'रित्यादिज्ञानेन बाधाद्यथाश्रुते व्यभिचारः, तथापि भ्रमत्वव्याप्य - धर्मावच्छिन्नकार्यतानिरूपितकारणत्वनिवेशे हेत्वभावादेव न व्यभिचारः । व्याप्यभ्रमस्य दोषविधया सर्वत्र व्यापकभ्रमेष्वकारणत्वादित्याशयेन स्थलान्तरे व्यभिचारमाह - दूरादिति । न च चाकचक्यज्ञानं हेतुः । तच्च न बाध्यं मन्मत इति वाच्यम् । चाकचक्यस्य हि सर्वस्य ज्ञानं न हेतुः । किं तु चाकचक्यव्यक्तिविशेषाणाम् । तथा च तत्तद्व्यक्तिज्ञानापेक्षया तत्तद्व्यक्तेरेव लघुत्वेन हेतुत्वम् । जातिविशेषरूपेण ज्ञानस्य हेतुत्वे तद्रूपं प्रातीतिकचाकचक्यव्यक्तिष्वपि सम्भवत्येव । यत्तु व्यावृत्ताकारेत्यादेविशेषणस्य पक्षमात्रव्यावर्तकत्वेनोक्तोपाधेः पक्षेतरत्वरूपतेति । तन्न ! उक्तावधिभिन्नत्वरूपोपाधिर्हि यदभाववत्त्वेन ज्ञातमधिष्ठानं स्वजन्यभ्रमनिवर्तकं तादृशदोषान्यत्वम् । तथा च तादृशदोषप्रतियोगिकत्वरूपस्य विशेषणस्य चाकचक्यादिरूपाद्विपक्षादपि व्यावर्तकत्वेन पक्षमात्राव्यावर्तकत्वाद्विपक्षाव्यावर्तकविशेषणानवच्छिन्नस्य साध्यव्यापकत्वस्य सत्त्वात् उक्तोपाधेरसत्त्वे उक्तसाध्यानुपपत्तेः साध्यव्यापकताग्रहात् । ब्रह्मान्यानादीति । पक्षे हेतौ चानादित्वं प्रागभावाप्रतियोगित्वं चेत् तदा तुच्छे बाधव्यभिचारौ । तद्विशिष्टभावत्वं चेत्, तदापि भावत्वं तुच्छान्यत्वं चेत् For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy