________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे सत्यत्वानुमानभङ्गः]
लघुचन्द्रिका ।
अनधिकरणत्वे सतीति । अस्मद्रीत्या प्रातिभासिके व्यभिचारप्रसक्तेरिदमुक्तम् । अनधिकरणत्वमधिकरणभेदत्वविशिष्टम् । तस्य च वृत्त्यनियामकेन ब्रह्मनिष्ठेन तादात्म्येन हेतुत्वे न दोषः । वृत्तिनियामकसम्बन्धस्यैव ब्रह्मणोऽधिकरणतापादकत्वात्। एवं चाभावत्वविशिष्टे साध्येऽपि बोध्यम् । तादृशतादात्म्यमपि न ब्रह्माधिकरणकम्। यनिरूपितमधिकरणत्वं वाच्यं, तदन्यसम्बन्धानुयोगित्वस्यैव तत्त्वात् । साधकत्वेति । व्याप्तिग्रहौपयिकत्वेत्यर्थः । ननु, ब्रह्मण्यज्ञानविषयत्वाद्यधिकरणत्वसत्त्वादनधिकरणत्ववटितहेत्वभावेन व्याप्त्यग्रहाद्व्याप्तिग्रहौपयिकतया तत्सार्थकम् । तत्राहशुद्धमेवेति । उक्ताधिकरणत्वं शुद्धे ब्रह्मणि नास्त्येव । किं तु उपहित इति भावः । नन्वसिद्धिवारकस्यापि व्यर्थत्वाभावः चक्षुस्तैजसत्वानुमानादौ दृष्टः । तथा च प्रातिभासिकत्वविशेषणस्यापि पक्षहेत्वसिद्धिवारकत्वेन न व्यर्थत्वमित्याशङ्कय यया असिध्या व्याप्तेरग्रहस्तद्वारकस्यैव सार्थकत्वम् । व्याप्तिग्रहोपयिकत्वात् । पक्षे हेत्वसिद्ध्या तु न व्याप्त्यग्रहः । दृष्टान्ते साध्यहेत्वोस्सियैव व्याप्तिग्रहात् । तथा च पक्षहेत्वसिद्धिवारकं प्रातिभासिकत्वं हेतोविशेषणं व्यर्थमेवेत्याशयेनाहतथा च चक्षुस्तैजसत्वेत्यादि । असिद्धिवारकस्य दृष्टान्ते हेत्वसिद्धिवारकस्य । तैजसत्वानुमानेति । चक्षुस्तैजसम् । रूपादिषु मध्ये रूपस्यैव व्यञ्जकत्वाद्दीपवदित्यत्र मध्यान्तानुपादाने दृष्टान्ते हेत्वभावेन साध्यहेत्वोस्सहचाराग्रहात् मध्यान्तं व्याप्तिग्राहकमिति भावः । ननु, व्याप्तेरिव पक्षधर्मताया अपि ग्राहकत्वेन सार्थक्यं कुतो न स्यात् । व्याप्तिग्राहकस्यापि सार्थकत्वे अनुमितिप्रयोजकत्वस्यैव तन्त्रत्वात् । तथा च व्याप्तिविशिष्टहेतोः पक्षधर्मताग्राहकत्वेन प्रातिभासिकत्वविशेषणस्याप्यनुमितिप्रयोजकतया सार्थकत्वम् । तत्राह-व्यभिचारवारकस्यति । तथा च यद्विशेषणं विना कृतस्य व्याप्यतावच्छेदकत्वसम्भवः तद्धटितं गौरवेण व्याप्यतायामनवच्छेदकम् । न च व्याप्यतायास्स्वरूपसम्वन्धरूपस्यातिरिक्तस्य वावच्छेदकत्वस्यानङ्गीकारात् अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्य तु गुरावपि स्वीकारात् नोक्तरीत्या वैयर्थ्यस्य दूषणत्वमिति वाच्यम् । व्याप्यताया उक्तावच्छेदकत्वस्यास्वीकारे कारणत्वादेरपि तदापत्तेः । 'दण्डः कारणमित्यादिधीरिव 'घूमो व्याप्य'इत्यादिधीरप्यवच्छेदकत्वावगाहिनी सम्भवत्येव । अत एव कम्बुग्रीवादिमत्त्वादिना व्याप्तिप्यत एव। तथा च स्वविशिष्टव्यापकसाध्यसामानाधिकरण्यावच्छेदकहेतुतावच्छेदकादिरूपव्याप्तिधीविरोधित्वादुक्तावच्छेदकत्वशून्यहेतुतावच्छेदकरू . पस्य व्यर्थविशेषणत्वस्य व्याप्यत्वासिद्धिरूपहेत्वाभासत्वमिति भावः । स्पष्टश्चायमर्थो मण्यादावीश्वरवादादौ । तथाहि-'शरीराजन्यत्वे व्यर्थविशेषणत्वम् । लाघवे
For Private and Personal Use Only