________________
Shri Mahavir Jain Aradhana Kendra
२४८
www.kobatirth.org
अद्वैतभञ्जरी
Acharya Shri Kailassagarsuri Gyanmandir
रकत्वादिति शेषः । न तु प्रतियोगीति । ननु, प्रतियोग्यनुयोगिभावादिसम्बन्धे मिथ्यात्वसंशये सम्बन्धव्यापकत्वमविप्रकर्षे न निश्श्रेतुं शक्यते इति चेन्न । उक्तानुकूलतर्कसत्त्वे व्यभिचारसंशयस्याप्रतिबन्धकत्वात् । अन्यथा पक्षावृत्युपाधौ साध्यव्यापकत्वस्यानिश्वयापत्तेः । बाधे विप्रकर्षहेतुकस्य सम्बन्धाभावानुमानस्य सामग्न्याम् । अदृढे तर्कानवतारेणानुत्पन्ने । अन्यसाम्यात् किमिति । ज्ञानज्ञेये तात्त्विकसम्बन्धयुक्ते । विशिष्टप्रमाविषयत्वात् । प्रतियोग्यभावादिवदिति सत्प्रतिपक्षरूपादन्यसाम्यघटितात् प्रयोगात् किं फलम् न किमपीत्यर्थः । सम्पन्नायां ह्यनुमानसामन्यां प्रत्यनुमानसामग्री सफला । नासम्पन्नायामिति भावः । दृढे उक्ततर्कावतारेण तस्यां सम्पन्नायाम् । तदपि साम्यप्रतियोगी प्रतियोग्यभावसनोऽपि । बाध्यतां विप्रकर्षेण प्रतियोग्यादावभावादिसम्बन्धाभाव उक्तसामग्यैवानुमीयताम् । तस्यास्तर्कवत्त्वेन निस्तर्कोक्तसामन्या सत्प्रतिपक्षासम्भवादिति भावः । बाधे दृढे इत्यत्र न्याये दृढे इति पाठकल्पनं तु न युक्तम् । खण्डनग्रन्थे तदभावात् । दर्शनेति । सहचारदर्शनेत्यर्थः । रूपवत्त्वादिकं रूपादिसाधकत्वम् । समकक्ष्यः अधिष्ठानारोप्ययोर्यस्सम्बन्धस्तदन्यः । परस्पराध्यासात्मकेति । सम्बन्धिनोः परस्परावच्छेदेन अध्यस्तं यत् परस्परतादात्म्यं तत्त्वरूपेत्यर्थः । सम्बन्धासम्भवेनेति । सम्बन्धिनोविंप्रकर्षात् सम्बन्धस्य मिथ्यात्वे सिद्धे मिथ्यासम्बन्धोपहितरूपेण सम्बन्धिनोरपि मिथ्यात्वं सिध्यति । तथा चोक्तरूपे
ज्ञानज्ञेययोमिथ्यात्वेऽपि शुद्धरूपस्य ज्ञानस्यामिथ्यात्वेनाधिष्ठानत्वसम्भवात्तयोस्सम्बन्धः अधिष्ठानारोप्ययोः पर्यवस्यति । प्रतियोग्यभावयोस्तु नाधिष्ठानारोप्यतासम्भवः । द्वयोरपि तयोश्शुद्धरूपेणापि ज्ञेयत्वेन मिथ्यात्वात् । तस्मात् शुद्धरूपेण सम्बन्धिनोर्मिथ्यात्वसाधकाभावे अधिष्ठानत्वमेवेति भावः । ननु, प्रतियोग्य भावयोः परस्परावच्छेदेन तादात्म्याध्यासासम्भवे 'घटोऽत्यन्ताभावीयः अत्यन्ताभावो घटीय' इति धीस्तयोः परस्परविशेष्यविशेषणता च न स्यात् । न च घटावच्छेदेन तदत्यन्ताभावस्य तादात्म्यानध्यासात् घटचित्सम्बन्धस्य उक्ताभावश्चित्सम्बन्धानवच्छेदकत्वेऽपि घटांशे उक्ताभावस्य विशेषणत्वव्यवहारो नानुपपन्नः । उक्ताभावीय प्रतियोगिताया घटावच्छेदेन तादात्म्याध्याससम्भवात्तादृशतादात्म्यरूपसांसर्गिकविषयताया घटविषयतावच्छिन्नत्वसम्भवादिति वाच्यम् । तावतापि घटांशे उक्ताभावस्य विशेषणत्वासम्भवात् । यदीयविषयताविशिष्टसंसर्गविषयता यदीयविषयत्वेनावच्छिन्ना, तदेव तत्र विशेषणमिति ं विवेचितम् । न चोक्ताभावविषयता घटादिविषयत्वेनावच्छेत्तुं शक्या । तयोर्भिनदेशावच्छिन्नत्वादिति चेन्न । प्रतीयमानस्य विशेष्यविशेषणभावस्यापलापायेागात्
For Private and Personal Use Only