________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
__ अद्वैतमञ्जरी ।
तत्मतिफलितेति । तद्विषयाकारवृत्तिप्रतिविम्बितं चैतन्यं तद्विषयं प्रति साक्षी । सुखादावपि वृत्तिः स्वीक्रियत एव । तां विना संस्कारासम्भवेन स्मृत्यनुपपत्तेः । न च यवृत्त्यवच्छिन्नचिति यावन्तो विषयीभवन्ति तदृत्तिसूक्ष्मावस्था तावतां सरकार इति स्वीकृत्य सुखादिकालीनाया घटाद्याकारवृत्तेनाशो वटादेरिव सुखादेरपि संस्कार उच्यताम् । किं सुखादौ वृत्तिकल्पनयेति वाच्यम् । सुखादिस्मृतौ हि सुखादिसंस्कारो हेतुः । संस्कारे सुखादेराकाराख्यसम्बन्ध एव निवेश्यः । तथा च घटाद्याकारवृत्तौ सुखादेरुक्तसम्बन्धाभावात्तत्सूक्ष्मावस्थायाः कथमुक्तसम्बन्धः । अथ तस्यां घटाद्याकारकवृत्त्यवच्छिन्नचैतन्यसूक्ष्मावस्थात्वस्वीकारेण तादृशचित्तादात्म्यात्तादृशचितश्च सुखादितादात्म्यात् सुखादिविषयकत्वमिति चेन्न । सुखाद्यनुमितिनाशरूपस्य सुखादिसंस्कारस्य सुखाद्याकारकत्वेन सुखादिस्मृतौ हेतुत्वस्य क्लप्तत्वेन विद्यमानसुखादौ वृत्तिस्वीकारे तेनैव निर्वाहात् सुखादितादात्म्यरूपविषयतामादाय हेतुत्वान्तरस्याकल्प्यत्वात् संस्कारकाले सुखादेरभावेन तत्तादात्म्यासम्भवाच्च । तस्मातदाकारवृत्तिनाशस्थैव तदाकारकत्वसम्भवात् तदाकारवृत्तिप्रतिबिम्बितचिदेव तसाक्षिणी । तादृशस्यैव भासकत्वात् । ननु, तदाकारसंस्कारं प्रति तज्ज्ञानत्वेन हेतुत्वम्। तज्ज्ञानत्वं च तदीयासत्त्वापादकाज्ञानविरोधिविशिष्टचित्त्वम् । तथा च सुखादिषु वृत्ति विनापि सुखादीनामेव तदज्ञानविरोधित्वात् तद्विशिष्टचितस्तज्ज्ञानत्वात् तयैव संस्काररूपो मनःपरिणामो जायत इति तस्य ज्ञाननाशत्वाभावेऽपि न क्षतिरिति चेन्न । घटाद्याकारकवृत्तिनाशानां क्लुप्तानामेव घटादिसंस्कारत्वसम्भवे अतिरिक्तानामनन्तानां घटादिसंस्काराणां कल्पने गौरवात् सुखाद्यपेक्षया घटादीनामनन्तत्वेन तेषु वृत्तिकल्पनापेक्षया तेषु अतिरिक्तसंस्कारस्वीकारे महागौरवात्। वस्तुतस्तु, सुखादौ वृत्त्यस्वीकारपक्षेऽपि साक्षिणो भ्रमप्रमासाधारणत्वेन प्रमात्वानिश्चयात् बाध्यतासम्भव इति बोध्यम् । बाधकधियः बाधकधीमात्रस्य । अनभ्युपगमादिति । कचिदिति शेषः । यथाश्रुतं त्वसङ्गतम् । शुक्तिरियमिति ज्ञाने जातेऽपि रजतभेदाज्ञानात् जातस्य 'इदं रजतमि'ति भ्रमस्य 'नेदं रजतमि' ति ज्ञानेनैवोच्छेदात् । गृहीतमात्रेति । गृहीतमात्रस्य आत्मानात्मरूपस्य । बाधे बाधस्वीकारे । माध्यमिकमते स्वपक्षः शून्यवादः न सिद्ध्यति । तात्विकविषयकप्रमाणं विना बाधो न सम्भवतीति भावः । सत्प्रतिपक्षे भावाभावव्याप्यवत्त्वेनैकर्मिणि निश्चयस्थले । किमत्र तत्त्वं अनयोर्व्याप्त्योः पक्षधर्मतयोश्च किमबाधितम् । जिज्ञासामिति । अनयोरन्यतरत् बाध्यमिति धीप्रतिबन्धद्वारेति शेषः । ननु, दोषाभाववत्प्रमाणत्वावच्छेदेनाबाध्यविषयकत्वनिश्चयादवाध्यविष
For Private and Personal Use Only