________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे भाविबाधोपपात्तः]
लघुचन्द्रिका।
त् शो निधर्मकत्वाच्चेति सूचितम् । ननु, वृत्तौ व्यावृत्ताकारता न व्यावृत्तस्य विषयिता । चैतन्यस्यैव विषयित्वात् । अधिष्ठानारोप्ययोरेव हि विषयिविषयभावस्त्वन्मते स्वीक्रियते । तत्राह-आकारश्चेति । असाधारणेति । वहेरेवेयमनुमितिन घटस्येत्यादीत्यर्थः । तथा च विषयित्वाभावेऽपि वृत्तौ विषयस्य कश्चन सम्बन्धः स्वीक्रियते । स च प्रतियोगिध्वंसयोरिव भिन्नकालीनयोरपि । ननु, शब्दात्त. दर्थोपस्थितिः केनचिद्रूपेणैव लोके दृष्टा । तथा चाद्वितीयत्वसत्यत्वाद्युपलक्षितस्य शुद्धस्य कथं शब्दादुपस्थितिः । तत्राह-तस्मादिति । उपलक्षणात् व्यावृत्ताकारत्वस्योपपन्नत्वादित्यर्थः । स्वरूपमात्रामति । प्रकृतवाक्यार्थबोधानुकूलाया एवोपस्थितेः पदेन साध्यत्वात् शुद्धस्याकाशादेशाब्दानुभवोपयोगिनी शुद्धतदुपस्थितिराकाशादिपदात् स्वीक्रियते । उक्तं हि शब्दमण्यादौ-'आकाशादिपदस्य शब्दाश्रयत्वादिविशिष्टे न शक्तिः । किं तु तदुपलक्षिते । घटादिपदस्य हि घटत्वादि. विशिष्टे शक्तियुज्यते । व्यक्तीनामानन्त्येन तत्र शक्तिग्रहासम्भवात् । आकाशादि. पदस्य तु एकस्यामाकाशादिव्यक्तावेव शक्तिग्रहसम्भवात् । शब्दाश्रयत्वादिकं न तच्छक्यम् । न चैवं कदाचिच्छब्दाश्रयत्वेनाकाशोपस्थितिः कदाचिदष्टद्रव्यान्यद्रव्यत्वादिनत्यत्र नियामकाभावाद्युगपत् सर्वे रूपैरुपस्थितिः स्यादिति वाच्यम् । यद्रूपेणोपस्थिते आकाशादौ शक्तिर्गृह्यते, तद्रूपेण तदुपस्थितिरिति व्यवस्थायास्तद्पांशे शक्त्यभावेऽपि सम्भवात् । अस्तु वा आकाशादिपदानिर्विकल्पकोपस्थितिरेव । शाब्दानुभवस्तु 'आकाशमस्ती'त्यादिवाक्ये एकमस्तीत्याद्याकारकः । न तु शुद्वाकाशे एकत्वादिप्रकारकः । शाब्दानुभवमुख्यविशेष्यतायाः किश्चिद्रूपावच्छिन्नत्वनियमादिति । तथा च पदार्थोपस्थितेस्तान्त्रिकैः स्वीकृतत्वात् । सत्यादिपदेभ्योऽपि शुद्धोपस्थितियुक्तेति भावः । ननु, कथमुपलक्षणाघ्यावृत्ताकारस्य ज्ञानस्य द्वैतभूमनिवर्तकत्वम् । न हि व्यावर्तकधर्ममविषयीकुर्वतोऽपि विरोधित्वं सम्भवति । तत्राह-दैतनिवर्तकामिति । द्वैतनिवर्तकतायोग्यमित्यर्थः । तथा च तादात्म्येन पृथिवीं प्रति व्यापकतया गन्धे गृहीते सति पृथिवी गन्धाभाववतीति धीर्यथा तार्किकादिभिर्न स्वीक्रियते । गन्धव्याप्यत्वविशिष्टाया इव गन्धव्याप्यतागोचरोबुद्धसंस्कारविषयीभूताया अपि पृथिव्या गन्धाभावव्यावर्तकधर्मत्वेन व्यावर्तकतावच्छेदकेन तादात्म्यसम्बन्धेन तद्विशिष्टप्टथिव्यां तदभावप्रकारकबुद्धेरनाहार्याया अनुत्पत्तेः । न हि गन्धव्याप्यवान् गन्धाभाववानित्यनाहार्यधीभवति । तथा द्वैताभावव्याप्यतया गृहीते ब्रह्मणि न द्वैतवत्त्वधीरनहाय जायते । ब्रह्मणि द्वैतव्यावर्तकधर्मत्वेन व्यावतकतावच्छेदकतादात्म्यसम्बन्धेन तत्सम्बन्धिनि द्वैतस्योक्तबुद्ध्यसम्भवादिति भावः ।
For Private and Personal Use Only