________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमपरिच्छेदः]
लघुचन्द्रिका ।
स्यैव ब्रह्मणि सर्वविषयकत्वरूपत्वात् सर्वोपादानत्वस्य ब्रह्माणि स्वात्मकसर्वजनकत्वरूपत्वात् 'एकमेवाद्वितीयमिति' 'यस्सर्वज्ञस्सर्ववित्' 'यस्य ज्ञानमयं तपः तस्मादेतत् ब्रह्मनामरूप 'मिति श्रुतिद्वये लक्षणादिवृत्त्या द्वैतवत्परब्रह्मनिष्ठस्यावच्छिन्नवृत्तिकान्यत्वरूपत्रैकालिकत्वविशिष्टात्यन्ताभावस्य प्रतियोगि द्वैतमिति धीरूपो मिथ्यात्वनिश्चय इति तत्पूर्वकत्वमुक्तनिर्विकल्पकनिश्चये आवश्यकम् । महावाक्यनन्याद्वैतनिश्चयस्यापि 'नेह नानास्ति किञ्चन' 'नात्र काचन भिदास्ति 'इत्यादितत्पदार्थशोधकवाक्याधीनधीपूर्वकत्वादुक्तवाक्येन वर्तमानार्थलट्प्रत्ययप्रयुतत्वात् द्वैतविशिष्टब्रह्मरूपोद्देश्यार्थकेहपदयुक्तत्वाच्च वर्तमानकालावच्छेदनोद्देश्यतावच्छेदकद्वैतवत्त्वावच्छेदकदेशकालावच्छेदेन च द्वैतविशिष्टे ब्रह्मणि अस्तित्वविशिष्टस्य द्वैताभावस्य बोधनात् अत्यन्ताभावस्यावच्छिन्नवृत्तिकान्यत्वस्वीकारे निरवच्छिन्नविशेषणतया तादृग्ब्रह्मवृत्तित्वबोधनात् तत्सम्बन्धावच्छिन्नस्य प्रतियोगिसामानाधिकरण्यस्य निवेशादेवाव्याप्यवृत्तितामादाय मिथ्यात्वानुमाने अर्थान्तरवारणात् एकप्रसरतामङ्गापत्त्या ब्रह्मणीत्येकपदस्य ब्रह्माधेयत्वयोरुद्देश्यविधेययोरन्वयाबोधकत्वेऽपि ब्रह्मणीत्यनेन ब्रह्मनिरूपितत्वरूपस्योद्देश्यस्यैवास्तीत्यनेनाधेयत्वाश्रयत्वरूपविधेयस्यैव समर्पणेन ब्रह्मनिरूपिताधेयत्वे तत्तद्देशावच्छिनत्वलाभात् 'यस्मिन् पञ्च पञ्च जना आकाशश्च प्रतिष्ठित 'इति वाक्ये 'प्राणस्य प्राणमुत चक्षुषश्चक्षु'रित्यादिवाक्ये चाकाशशब्दिताव्याकृतप्राणादिसंबन्धितया ब्रह्मण उक्तत्वात् पञ्चननशब्दस्य गन्धर्वादिरूपस्य ब्राह्मणादिरूपस्य वा भाष्योक्तार्थस्य 'यस्य ब्रह्म च क्षत्रश्चेति वाक्ये ब्रह्मक्षत्रपदयोरिव सर्वदृश्योपलक्षणत्वेन प्राणस्येत्यादेरपि सर्वदृश्योपलक्षणत्वेन सर्वदृश्यसंबन्धित्वेनैव ब्रह्मणः पूर्वमुक्तत्वाच्चाद्वैतसिद्धेः द्वैतमिथ्यात्वपूर्वकत्वम् । न च नानेत्यस्य नपदनिष्पन्नत्वेन भेदार्थकतया स्वसमभिव्याहतपदार्थब्रह्मभेदबोधकतया तादृशभेदविशिष्टस्य किश्चनेति पदार्थस्यात्यन्ताभावे द्वैतवत्त्वदेशकालावच्छिन्नत्वस्य भानं न व्युत्पत्तिसिद्धम् । उद्देश्यतावच्छेदकतत्तद्देशकालावच्छिन्नत्वयोः तत्तद्देशकालादिविशिष्टोद्देशस्थले पानादिति वाच्यम् । तादृशाभावे तादृशावच्छिन्नब्रह्मवृत्तित्वबोधेऽप्युद्देश्यसिद्धेः । न हि तल तल्केनापि स्वीक्रियते । प्रलयेऽपि तादृशाभावे तार्किकादिभिस्तदस्वीकारात् मिथ्यात्ववादिनैव तत्स्वीकारात् । वस्तुतस्तु, बमभेदो न प्रतियोगितावच्छेदकतया भाति । किं तूपलक्षणतया किञ्चनपदार्थे प्रकारः। तथा च किञ्चनपदस्य सर्वनामतया प्रसिद्धार्थतया प्रत्यक्षादिमानसिद्धद्रव्यत्वादिविशिष्टबोधकत्वेन प्रसिद्धार्थकत्वात् प्रक्रान्तार्थकत्वाद्वा । इहपदेन घटत्वादिविशिष्ट
For Private and Personal Use Only