________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
त्युपकृतवाक्यनन्यज्ञानस्यैव तदिति भावः । परममङ्गलरूपां परब्रह्मरूपविषयप्रयोजनोक्तिं सम्पाद्य परमगुरुगुरुविद्यागुरून्प्रणमति-श्रीरामेत्यादि । ऐक्येन आस्मैक्येन माधवानां परब्रह्मणाम् । ममात्मम्भरितां मन्निष्ठां स्वार्थसम्पादकताम् । भावयितुं जनायितुम् । एष श्रमः एतद्न्यसम्पादनम् । परोक्तदूषणोद्धारपूर्वकस्वमतपरिच्छेदविशेषस्यैतद्वन्थे क्रियमाणस्यातिलोकोत्तरत्वेनान्यैरेतद्रन्थदर्शनात्पूर्वमज्ञातत्वेनाकामितत्वान्मयैव पूर्व कातिमुक्तपरिच्छेदरूपं फलं भावयिष्यत्ययं ग्रन्थो नान्यैः कामितमिति भावः । सिद्धिः निश्चयः । इयं एतद्रन्थाधीना । 'सिद्धीनामिष्टनैष्कर्म्यब्रह्मगानामियं चिरात् । अद्वैतसिद्धिरधुना चतुर्थी समजायत ।' इति एतद्रन्थीयसमाप्तिस्थानीयपद्यस्थसिद्धिपदान्यपि तत्तद्वन्थाधीननिश्चयपराण्येव । परिच्छेदसमाप्त्यादिस्थले सिद्धिपदं साधक ग्रन्थपरं निश्चयपरमेव वा । अद्वैतनिश्चयोपयोगी प्रथमपरिच्छेद इत्याद्यर्थकत्वसम्भवेन लक्षणायां मानाभावात् । अस्मदादिभिस्तु, स्वकीयसंकेतविशेषेणास्मिन् ग्रन्थे अद्वैतसिद्धिपदं प्रयुज्यते । पूर्वकलादिति । 'एकमेवाद्वितीयं ब्रह्मे'त्यादिश्रुत्या जायमाने अद्वैतत्वोपलक्षितब्रह्मनिर्विकल्पकनिश्चये बमणि द्वैताभावविशिष्टबुद्धरत्वात् । तस्याश्च निषेधत्वेन प्राप्तिपूर्वकत्वेन द्वैतवति ब्रह्मणि द्वैतवत्त्वकालावच्छेदेन द्वैताभाववत्त्वविषयकत्वात् । 'सदेव सोम्येदमग्र आसी'दिति पूर्ववाक्ये इदंशब्दार्थद्वैतसामान्यतादात्म्यस्य लब्धत्वेन तस्य द्वैताभावांशे उद्देश्यतावच्छेदकत्वेन तत्र तत्कालावच्छेद्यत्वभानस्य व्युत्पत्तिसिद्धत्वात् इदमात्मकसतोऽयकालसत्त्वस्य द्वैताभाववत्त्वस्य च द्वयोर्विधाने वाक्यभेदस्येष्टत्वात् द्वैतवति द्वैताभावबोधस्याहार्यत्वेन शाब्दत्वासम्भवेऽपि इदंपदस्य दृश्यत्वरूपेण द्वि तीयपदस्य चात्मभिन्नत्वरूपेण बोधकत्वेनाहार्यत्वाभावात् कालान्तरावच्छेदेन द्वैताभाववत्त्वविषयकधियश्च 'तरति शोकमात्मवित्' 'विद्वान्नामरूपाद्विमुक्तः' 'ज्ञात्वा देवं मुच्यते सर्वपाशै'रित्यादिश्रुतिभिः ज्ञाननाश्यत्वानुमापकदृश्यत्वलिङ्गादिरूपमानान्तरेण च सिद्धत्वेन तज्जनने वाक्यवैयर्थ्यापत्तेः एककालावच्छिन्नं प्रतियोग्यभावयोरेकाधिकरणवृत्तित्वमिति धीरूपो मिथ्यात्वनिश्चयः । अथ वा मिथ्यात्वघटकस्याभावस्य सदा सर्वत्र विद्यमानत्वेनावच्छिन्नवृत्तिकान्यत्वेन मिथ्यात्वं नोक्तरूपम् । किंतु तादृशान्यत्वविशिष्टेनाभावेन घटितम् । तथा च प्रत्यक्षादिप्रमाणस्याद्वैतश्रुतिबाध्यत्वेन ब्रह्मणि कालविशेषाद्यवच्छिन्नद्वैतामावबोधकत्वरूपे श्रुतिसंकोचे हेतोरभावेन तादृशाभावंस्य त्रैकालिकत्वनिश्चयात सार्वश्यसर्वकार्योपादानत्वबोधकश्रुतेरपि लक्षणवाक्यविधया निर्विकल्पकनिश्चयजनकत्वेऽपि तादृशनिश्चयस्य सर्वद्वैततादात्म्यविशिष्टधीपूर्वकत्वात् सर्वतादात्म्य
For Private and Personal Use Only