________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लपन
प्रथमपरिच्छेदः] लघुचन्द्रिका । दवानित्यर्थलाभात् अविद्योच्छेदस्य दृश्योच्छेदव्याप्यतालाभेनाविद्यारूपबन्धस्य मिथ्यात्वोक्त्या अविद्याप्रयुक्तदृश्यमात्रस्य मिथ्यात्वलामेनानादिदृश्यानामपि ज्ञानोच्छेदलाभादुक्तव्याप्यतायाः सम्भवः । तथा च सर्वदृश्योच्छेदोपलक्षितपरमानन्दरूपात्मरूपकैवल्यप्राप्तिस्तत्वज्ञानोत्तरमेव न तत्क्षण इति नोद्देश्यतावच्छेदकत्वधीविषयत्वकालीनत्वं विधेये मोक्षलाभे विवक्षितम् । उज्झित इति निष्ठाप्रत्ययेनोच्छेदस्यातीतकाले मोक्षप्राप्तेर्लाभात् अत्यन्ताभावत्वावेशिष्टरूपस्योच्छेदस्यापि दृश्यत्वात्तादृशे मोक्षकाले तस्यातीतत्वादिति भावः । मोक्षं कीदृशं तत्राह-परमेत्यादि । निरतिशयापरिच्छिन्नसुखमात्रस्वरूपमित्यर्थः । ननु, मुक्तस्य प्रकाशकामावेन प्रकाशत इत्यर्थकं विजयत इत्ययुक्तम् । तताह-स्वयामिति । प्रकाशकसम्बन्धं विनैवेत्यर्थः । नन्वेवं विजयत इत्यनुपपन्नम् । तस्यापि प्रकाशसम्बन्धार्थकत्वात् । स्वयमित्यस्य प्रकाशान्तरं विनेत्यर्थकत्वेन विजयत इत्यस्य स्वात्मप्रकाशसम्बन्धार्थकत्वेऽपि विष्णोईश्यत्वेन मिथ्यात्वापत्तिः । अथ विजयत इत्यस्योत्कर्षान्तरमेवार्थः । न तु प्रकाशसम्बन्धः । तदा प्रकाशमानानन्दरूपत्वालाभेन मोक्षस्य प्रयोजनत्वालाभस्तत्राह-सत्यज्ञानसुखात्मक इति । यथात्मन आनन्दत्वेनानन्दरूपं मोक्ष प्राप्त इवेत्युक्तम् । अत एवानन्दावाप्तिबोधक श्रुतेरनावतानन्दैक्यमर्थः । न त्वानन्दसम्बन्धः । तथा प्रकाशरूपत्वेन विष्णोः प्रकाशत इत्यस्यानावृतचिदभेदबोधकत्वम् । न तु प्रकाशसम्बन्धार्थकत्वम् । तथा च दृश्यत्वाभावात् न मिथ्यात्वापत्तिः । न च प्रकाशरूपतोक्तियेथेति वाच्यम् । अपरोक्षव्यवहारयोग्यसुखस्यैव पुरुषार्थत्वम् । उक्तयोग्यत्वञ्चानावृतचिद्रूपत्वेन ताशचित्तादात्म्येन वा । तत्रोक्तरूपानन्दस्यान्त्याभावेऽप्याद्यमस्तीति ज्ञापनार्थत्वेन तस्यास्सार्थक्यात् । ननु ज्ञानस्याज्ञानतत्कार्यविरोधितायाः शुक्त्यादिज्ञानस्थले दृष्टतया युक्तत्वेऽप्यनादिसाधारणदृश्यमात्रविरोधित्वमदृष्टत्वान्न युक्तम् । तत्राहमायेत्यादि । मायया कल्पितं प्रयुक्तम् । अत एव मृषाभूतं यन्मातृतामुखं प्र. मातृत्वादिरूपं द्वैतमात्मभिन्नं तदभिन्नप्रपञ्चाश्रय इत्यर्थः । तथा च शुक्त्याद्यज्ञानस्येव चिन्निष्ठतत्सम्बन्धादेरपि तत्प्रयुक्तत्वेन शुक्त्यादिज्ञानविरोधिताया दृ ष्टतया ब्रह्मज्ञानस्यापि ब्रह्माज्ञानप्रयुक्तदृश्यमातविरोधित्वं युक्तमिति भावः । मृषाद्वैताश्रयत्वोक्त्या मुमुक्षावानधिकारी सूचितः । नन्वखण्डब्रह्माकारज्ञानस्य दृश्योच्छेदकत्वे आपातज्ञानरूपस्यापि तस्य तत्स्यात् । तत्राह-श्रुतिशिखात्योति । श्रुतीनां कर्मोपासनाकाण्डरूपाणामुपकार्यत्वेन शिखेव मुख्यं यन्महावाक्यं तजनितेत्यर्थः । तथा च निष्कामकर्मोपासनानुष्ठापनद्वारकचित्तशुद्धिचित्तैकाग्रताद्वारोक्तश्रु
For Private and Personal Use Only