________________
Shri Mahavir Jain Aradhana Kendra
२
www.kobatirth.org.
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
कविषयत्वक्षणे एव तादृशाविद्यास्तमयस्संभवति । चरमधीरूपविद्यावतः क्षणस्याविद्यातत्प्रयुक्तदृश्यविशिष्टकालपूर्वत्वाभावनियमेन सिद्धस्याविद्यास्तमयस्य विदेहताकालीनस्य विद्यावति क्षणे संभवाभावात् । अत आह— मिथ्याबन्धविधूननेन विकल्पोशित इति । ब्रह्मात्मैक्याज्ञानरूपवन्धस्य तादृशास्तमयेन दृश्यशून्य इत्यर्थः । अत्र बन्धस्य मिथ्यात्वोक्त्या तदुच्छेदस्य ज्ञानाधीनत्वज्ञा-' पनेन न ज्ञानोत्पत्तिकालीनत्वमिति ज्ञापितम् । तथा च विधेये उद्देश्यतावच्छेदककालावच्छिन्नत्वबोधस्यौत्सर्गिकत्वात् सर्गाद्यकालीनव्यणुकपक्षकजन्यतासंबन्धेन कर्तृसाध्यकानुमितौ निरवच्छिन्ने कर्तरि विधेये तादृशकालावच्छिन्नत्ववा - धवत् प्रकृतेऽपि तस्य बाधितत्वात् न तत्र तद्बोधः । अत्र बन्धविधूननमविद्यातत्कार्यशून्यत्वं दृश्यशून्यत्वं अनादिसाधारणदृश्यशून्यत्वमिति तयोर्भेदः । विधूननेनेति तृतीया ज्ञापकहेतौ । न तु कारकहेतौ । न ह्यविद्याया अस्तमयो नाम व्यावहारिकध्वंसरूपो विद्याजन्योऽस्मत्सिद्धान्ते स्वीक्रियते । दृश्यान्तरध्वंसो वा तज्जन्यः । तथा सति तस्य निवर्तकाभावेन 'विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुतिबोधितस्य विदुषि सर्वदृश्योच्छेदस्य बाधापत्तेः । तत्वज्ञानोत्पत्तिद्वितीयक्षणे हि तत्वज्ञानादिसर्व दृश्यनाशोत्पादात् उक्तक्षणद्वितीयक्षणे उक्तनाशस्य नाशोत्पत्त्यसम्भवः । तत्वज्ञानजन्यस्य नाशस्यैव तत्वज्ञाननाशहेतुत्वे स्वीकृतेऽप्युक्तवाश्रापत्तेस्तादवस्थ्यात् । तत्वज्ञानजन्यस्य दृश्यान्तरनाशस्य तत्वज्ञानस्य च यौ नाशौ तयोनशकाभावात्तयोः स्वनाशकत्व स्वीकारेऽप्युक्तापत्तितादवस्थ्यात् अप्रामाणिकानन्तनाशकल्पने गौरवाच्च । तस्माच्चरमतत्वज्ञानस्य दृश्याश्रयकालपूर्वत्वाभावनियम एव स्वीक्रियते । न तु नाशहेतुत्वम् । यत्तु बद्धपुरुषैः प्रातीतिकमस्तमयादिकं कल्प्यते । न तस्य नाशहेतुत्वम् । यद्यपि ज्ञापकहेतुत्वमपि दृश्यास्तमयं प्रत्यविद्यास्तमयत्वेन नास्ति । जीवन्मुक्ते प्रातीतिकाविद्यास्तमये तद्यभिचारित्वात् । जीवन्मुक्ते प्रातीतिकस्य दृश्यास्तमयस्य करूपने नियमाभावात् । तथापि दृश्यास्तमयकालीनत्वरूपेणाविद्यास्तमयस्य दृश्यास्तमयं प्रत्यस्त्येवेति ध्येयम् । अथ वा मास्तु प्रातीतिकं तादृशाविद्यास्तमयादिकम् । अविद्योच्छेदोपलक्षितः पूर्णानन्दरूप आत्मा मोक्षः । अविद्योच्छेदश्च तदीयस्थूलसूक्ष्मरूपाश्रयकालपूर्वत्वाभावः सर्वदृश्याश्रयकालपूर्वत्वाभावरूपेण दृश्योच्छेदेन व्याप्तः । मोक्षस्य दृश्योच्छेदोपलक्षितात्मरूपकैवल्यरूपत्वात् । यद्वा । ननु, दृश्योच्छेदस्तत्वज्ञानोत्पत्तिक्षणे न सम्भवति । अनादिदृश्यानां ज्ञानानुच्छेद्यत्वादविद्यातत्कार्ययोरेव तदुच्छेद्यत्वात्तत्वाह - मिथ्याबन्धेति । मिथ्याबन्धविधूननेन विकल्पोज्झित इति योजना । तथा च अविद्योच्छेदेन दृश्योच्छे
For Private and Personal Use Only