________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
अद्वैतमञ्जरी ।
वत् ब्रह्मबोधनात् द्रव्यत्वादिविशेषरूपेणैव मिथ्यात्वलाभः । घटवद्र्व्यवदित्येवमुद्देश्यतावच्छेदकभानेऽपि द्रव्यं नास्तीत्यादिविधेयांशे घटत्वादिविशिष्टस्योद्देश्यतावच्छेदकत्वेन द्रव्यत्वादिविशिष्टाभावज्ञानस्य नाहार्यत्वापत्तिरिति भावः । वादः तत्वबुभुत्सुना सह कथा । जल्पो विजिगीषुणा सह । वितण्डा स्वपक्षस्थापनहीना । कथा पञ्चावयवपरिकरोपेतवाक्यम् । सिषाधयिषत्यादि । सिषाधयिषाभावसामानाधिकरण्यविशिष्टस्य साध्यनिश्चयस्याभावरूपाया इत्यर्थः । संशयस्य संशयहेतुत्वस्वीकारस्य । अतिप्रसञ्जकत्वात् आहार्यपरामर्शादेहेतुत्वापादकत्वात् । पक्षप्रतिपक्षपरिग्रहेति । पक्षे धर्मिणि प्रतिनियतपक्षपरिग्रहेत्यर्थः । वादिनो वाभावान्यतरकोटेरेकर्मिणि प्रयोगेति यावत् । तथाप्यनुमित्यनङ्गत्वेऽपीति । अनुमि ति प्रति तथाविधमेव यदङ्गत्वं तदमावेऽपीत्यर्थः । प्रथमस्यापिशव्दस्यैवकारसमानार्थकत्वात् यद्यपीत्यस्य पूर्व सत्त्वात्तथापीत्यन्यदध्याहार्यम् । एकेनैव वा तथापीत्यनेनार्थद्वयबोधः । अथ वा अङ्गत्वपदस्य पूर्वशङ्किताङ्गत्वमर्थः । व्युदसनीयतया विचारसाध्याभावप्रतियोगितया । विचाराङ्गत्वं विचारप्रवृत्युपयुक्तस्य संशयाभावरूपफलज्ञानस्य विशेषणज्ञानविधया कारणे ज्ञाने विषयत्वम् । तथा च विप्रतिपत्तिवाक्यात् संशये जाते सन्देलीत्याकारकेण संशयरूपविशेषणज्ञानेन संशयामावरूपफलज्ञानाधीनेच्छया विचारे प्रवृत्तिरित्येवंरीत्या विचारे विप्रतिपत्तिवाक्योपयोगइति भावः । नमु, पादिनोः स्वस्वकोटिनिश्चयकाले तत्संशयोत्पादानुपपत्तिरत आह
-तादृशेति । विचारानेत्यर्थः । स्वरूपयोग्यत्वात् कारणत्वात् । प्राचीनमते विप्रतिपत्तिवाक्यस्य शाब्दधीरूपसंशयोत्पादकत्वस्वीकारात् । प्रत्यक्षस्यैव संशयत्वमिति यते तु, कारणीभूतकोटिद्वयोपस्थितिहेतुपदघटितत्वादित्यर्थः । तथा च वादिनोनिश्चयकाले संशयानुत्पत्तावपि संशयकारणत्वादिरूपेण ज्ञाता विप्रतिपत्तिः संशयं स्मारयति । पयोः सम्बन्धः पूर्व गृहीतः तयोरेकज्ञानस्यापरस्मारकत्वात् । तथाच तदैव तथा तस्या उपयोग इति भावः । आभिमानिकनिश्चयाभिप्रायमिति । निश्चयवानस्मीति ज्ञापयन्तौ विवदेते इत्यर्थकम् । तथाच वादिनोंनिश्चयकाले सभापत्यादीनां संशयाभावमुद्दिश्य विचारे प्रवृत्तिरिति भावः । ननु , विशेषणज्ञानस्य विशिष्टबुद्धिहेतुत्वमते नोक्तरीत्या विप्रतिपत्तिरुपयुज्यत इति चेत् । सत्यम् । तथापि स्वस्य परस्य वा संशयाभावत्वे निश्चिते तत्र सिद्धत्वज्ञानात्. तदुद्देशेन प्रवृत्तिरतस्संशयाभाववत्त्वनिश्चयविरोधिनी संशयत्वधीरपेक्ष्यत एव । ननु। वादिनोरन्येषां च सभास्थानां निश्चये वादिभ्यां निश्चिते संशयाभावमुद्दिश्य न विचारे तयोः प्रवृत्तिः । किं तु विजयादिकमुद्दिश्य । तत्र च विप्रतिपत्तिर्नोपयुज्यते ।
For Private and Personal Use Only