SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१६ अद्वैतमञ्जरी । भानापत्त्या विशेषाभावभानोतिविरोधात् । प्रतीतिः प्रमा । संशयोपपत्तेरिति । न च रूपत्वावच्छिन्नप्रतियोगिताकत्वेन विशेषाभावस्य धीरपि सामान्यसंशयवि. रोधिनीति वाच्यम् । 'घटत्वेन पटो नास्त्यत्रे'ति ज्ञानस्य घटवदिदमिति विरो. धित्वापत्तेः । अभावांशे प्रतियोगिनः येन रूपेण प्रकारता, तदवच्छिन्नप्रतियो. गिताकत्वधीत्वेनैव तद्रूपविशिष्टवत्ताधीविरोधित्वस्य त्वयापि वाच्यत्वात् संशयनिवर्तकत्वमुक्तवाक्यस्य व्युत्पादयन् तदृष्टान्तेन 'न जानामी'ति ज्ञानस्यापि ज्ञानसामान्यामावविषयकत्वावश्यकत्वेन विरोधमाह-अथाभावेत्यादिना व्याहन्यन इत्यन्तेन । अवच्छेदकत्वं प्रतियोगितावच्छेदकत्वम् । तेन प्रतियोगित्वस्याप्यनुपस्थितस्य संसर्गतया भानं लभ्यते । अन्येति । अवच्छेदकस्य ग्रहे तु प्रतियोग्यंशे प्रकारतया भासिका सामग्न्येव सामग्रीत्वेन क्लुप्तेति भावः । ज्ञानविशेषविरोधिनीति । ज्ञानादिमति ज्ञानाद्यभाववत्त्वज्ञानानुदयात् तार्किकादिमते स्वरूपसत् ज्ञानादिकं स्वाभाववत्त्वधीविरोधि स्वीक्रियते । तस्य साक्षिभास्यत्वमते स्वविषयत्वमते च विद्यमानं स्वाश्रये प्रकारतया ज्ञायत एवेत्युभयथापि ज्ञानादिसत्त्वे तत्सामान्याभावधीः विरुध्यत इति भावः । ननु, रूपाद्यभाववत्त्वबुद्धे रूपादितत्त्वधीप्रतिबध्यत्वेऽपि न जानामीति बुद्धेर्न ज्ञानादिमत्त्वधीप्रतिबध्यत्वम् । न च तथापि 'न जानामीति'बुद्धेर्धमत्वं स्यादिति वाच्यम् । इष्टत्वात् । तत्राह-तथा चेति। 'न जानामी'तिबुद्धेरिति शेषः । वैलक्षण्ये 'जानामी' ति ज्ञानाप्रतिबध्यत्वे। लाघवादिति । घटादौ ज्ञानवत्त्वधीप्रतिबध्यत्वं घटादौ ज्ञानाभावबुद्धेस्त्वयापि वाच्यम् । तथा च समानविशेष्यतावच्छेदकत्वप्रत्यासक्त्यैव ज्ञानतदभाववत्त्वबुद्ध्योमिथः प्रतिबध्यप्रतिबन्धकत्वं कल्प्यताम् । एवं च 'न जानामी'ति बुद्धावगत्या भावरूपाज्ञानं विषयः कल्प्यताम् । तथा च तस्यां भ्रमत्वदोषजन्यत्वयोः कल्पनाप्रयुक्तं गौरवं न भविष्यति । न च 'घटो न जानाति न जानामी'ति ज्ञानयोविषयवैरूप्यं दोष इति वाच्यम् । 'इदमसुरं बलिरसुर' इति ज्ञानयोरिव तस्य अदोषत्वात् । असुरमित्यस्य हि सुरशून्यमर्थः । असुर इत्यस्य तु सुरविरोधीति भावः । ननु, प्रतियोग्यशे प्रकार एव प्रतियोगितावच्छेदकतया भातीति नियमस्त्वयापि न वाच्यः । पारमार्थिकत्वेन प्रपञ्चामावघटितस्य प्रपञ्चे मिथ्यात्वस्य त्वयोक्तत्वात् । तथा चोक्तवुद्धौ ज्ञानविशेषत्वं प्रतियोगिन्यप्रकारोऽपि ज्ञानसामान्यनिष्ठे प्रतियोगित्वे अवच्छेदकतया भासतामिति चेन्न । विशेषरूपेण सामान्याभावासिद्धेः । 'घटत्वेन पटो नास्तीति ज्ञानस्य हि घटत्वावच्छिन्नपटनिष्ठप्रतियोगिताकाभाव एव विषयः । विषयान्तरस्यासम्भवात् । तद्व्यक्तित्वेन घटो ना. For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy