________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे अनुकूलतर्कनिरूपणम् ].
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
२४५
i
नुपपत्तिरूपतर्कः मिथ्यात्वसिद्ध्यनुकुलो न स्यात् । दृग्दृश्ययोस्तादात्म्यस्यैवानुपपन्नत्वादिति वाच्यम् । उक्तसम्बन्धस्याप्यनुपपन्नत्वात् । संसर्गमात्रस्यानुपपन्नत्वं हि वक्ष्यते । तस्या जगदुपादानत्वे तु तादात्म्यरूपसाक्षात्सम्बन्धसम्भवे उक्तसम्बन्धी विषयावभासको न युक्तः । अत एव मनोवच्छिन्नचितो जीवत्वपक्षे जीवस्य जगदनुपादानत्वेन विषयतादात्म्याभावेऽपि ब्रह्मण एव जगदुपादानत्वेन विषयतादात्म्यात् विषयप्रकाशकं तादात्म्यमेव । वृत्तिस्तु विषयभासकब्रह्माभेदाभिव्यक्त्यर्थेत्याशयेनाह - प्रकाशस्येति। ज्ञानालोकयोरन्यतरस्येत्यर्थः । साक्षात्स्वसंसृष्टप्रकाशकत्वेति । स्वकीयसाक्षात्संबन्धाश्रये कार्यविशेषप्रयोजकत्वेत्यर्थः । प्रकाशयति स्वप्रयोज्यका - यविशेषभाजं करोति । यथालोकः संयोगरूपसाक्षात्सम्बन्धेन घटादौ गतो 'घटः प्रकाशत' इति व्यवहारं तमोनाशञ्च जनयति तथा चित् तादात्म्येन घटादौ गता घटो 'भाती' त्यादिव्यवहारं प्रवृत्त्यादिकञ्च । परम्परासम्बन्धेन तज्जनकत्वे गौरवादिति भावः । नन्वनावृतचित्तादात्म्यस्य जनकत्वे वृत्तेरेव तद्युक्तम् । तस्या एवावरणविरोधित्वात् लाववाच्च । तत्राह - अतो विषयेति । आवरणभङ्गोऽनावृतत्वम् । क्वचिदिति शेषः । तथा च वृत्तेरुक्तजनकत्वे सुखादिस्थले तदभावादनुपपत्तिः । किं च वृत्तिमात्रस्योत्तजनकत्वाभावात् अपरोक्षत्वेन तस्य जनकत्वं वाच्यम् । तच्चानावृतचित्तादात्म्यवद्विषयकत्वम् । तथा चोक्तचित एवो
कारणत्वे लावमिति भावः । अत एवानावृताधिष्ठानचितः प्रकाशकत्वादेव । अतन्त्रतापात इति । प्रतिबिम्बचितोऽनधिष्ठानत्वादिति शेषः । घटाभिव्यक्तेति । घटावच्छेदेनाभिव्यक्तेत्यर्थः । स्फुटतरः भातीत्यादिरूपः । युक्तत्वादिति । अन्यथोक्तचैतन्यस्य परोक्षस्थलेऽपि सत्त्वेनोक्तव्यवहारापत्तिः । तदधिष्ठानत्वं तदुपादानत्वम् । शुद्धेति । घटाद्यनुपहितेत्यर्थः । अविद्यावशादधिष्ठानेति । ब्रह्मणउपादानत्वपक्षे अविद्याविशिष्टतया अविद्योपहिततया वोपादानत्वम् । जीवस्योपादानत्वपक्षेऽप्यविद्योपहितस्यैव नीवत्वात् सुतरां तथेति भावः । तदवस्थाविशेषेति । पल्लवाविद्येत्यर्थः । आदिपदादेकाज्ञानपक्षे मनोनवच्छेदप्रयुक्तस्य विषयचित्प्रमातृचितोर्भेदस्य सङ्ग्रहः । तथा च मूलाविद्या घटाद्यवच्छिन्नचितं नावृणोति । एकाज्ञानपक्षे मनोसम्बन्धमेव विषयमावृणोति । अतो नोक्तदोष इति भावः । प्रमात्वादिति । प्रमाविषयत्वेनेति शेषः । प्रकृते घटादिभासकदृशि । तदभावादिति । बाधितविषयकवृत्तेः भ्रमत्वेन दोषजन्यतेति भावः । विशिष्टधीः ज्ञातो घट' इत्याकारकधीः । विशेषणविशेष्यसम्बन्धविषया ज्ञानघटयोर्विषयगताभ्यां निरूपिता या किञ्चिन्निष्ठविषयता तद्विशिष्टा । तेन ज्ञानघटयोः सम्बन्धविशेषस्य पू
For Private and Personal Use Only